________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ५ का.] ग्रह्य सूत्रम् ।
६३ वस्वन्त रात्रौ धनमितिदिवा ॥ ४ ॥ रात्री क्रियमाणे कर्मणि 'वसु' शब्दान्त,-दिवाक्रियमाणे कर्मणि 'धनम्'-दूत्यन्तं कृत्वा, इदं भूमेरिति मन्त्र जपेत् ॥०॥ ४ ॥०॥
इम स्तोममिति तृचेन परिसमूहेत् ॥ ५ ॥ इमं स्तोमम्, इत्यादिना ऋक्त्रयेण परिसमूहेत्-विक्षिप्तानग्न्यवयवानेकीकुर्यात् । अन्यत्र क्षिप्रहामेभ्यः । तथा चोक्तम् । . “न कुर्यात् क्षिप्रहामेषु द्विजः परिसमूहनम्” । इति । तिमृणाम्चां ममाहारः वचः । “ऋचि त्रे रुत्तरपदादिलोपश्च छन्दसि"-इति तत्पदं सिद्धम् । “छन्दोवत् सूत्राणि कवयः कुर्वन्ति"--दूत्यभ्युपगमात् । तदिदं परिसमूहनं यथाकरणीयं तदाह कर्मप्रदीपः ।
"कृत्वाऽग्न्यभिमुखो हस्ती स्वस्थानस्थौ सुमंहितौ ।
प्रदक्षिणं तथाऽऽसीनः कुर्यात् परिसमूहनम्" ॥ इति । तस्मात्,-दक्षिणहस्तेन कुशान् ग्टहीत्वा, इत्यसङ्गतैषा कल्पना भवदेवस्य ॥०॥ ५ ॥०॥
वैरूपाक्षः पुरस्तावोमानाम् ॥ ६ ॥ वैरूपाक्षः,-उपश्च तेजश्च, इत्यादि जपः, इति केचित् । विरूपाक्षशब्दो यस्मिन् विद्यते, सोऽयं वैरूपाक्ष:-भूर्भुवः स्वरोम् इत्यादिकामन्त्रः, इति तत्त्वकारः। पद्यामान मन्त्रकाण्डे तु "भूर्भुवःस्वर ॐ महान्तमात्मानं प्रपद्ये"-इति प्रतीकं प्रपदशेषतयैव पद्यते । "विरूपाक्षोऽसि दन्ताजिः” इत्येतदारभ्य वैरूपाक्ष: पद्यते । स
4 R2
For Private and Personal Use Only