________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीय-गृह्यसूत्रे चतुर्थप्रपाठके पञ्चमी काण्डिका ।
उको नित्यनैमित्तिकविधिः, अथेदानी काम्यविधयो वक्रव्याः । तेषु तावत्,
काम्येधत ऊर्द्धम् ॥ १॥ वक्ष्यमाणा विधयो वेदितव्याः ॥ ॥ १ ॥०॥
पूर्वेषु चैके ॥२॥ पूर्वेषु नित्यनैमित्तिकेष्वपि वक्ष्यमाणा विधयो भवन्ति, इति एके प्राचार्या मन्यन्ते ॥०॥ २ ॥०॥ के पुनस्ते विधयः ? । उच्यते,पश्चादग्ने भूमी न्यच्चा पाणी प्रतिष्ठाप्येदं भूमे
भजामह इति ॥३॥ जपेत्, इति सूत्रशेषः । पादग्नेरित्याधुतार्थम् । न्यञ्चपाणि प्रतिठापनञ्च,
"दक्षिणं पामतो वाह्यमात्माभिमुखमेव च ।
करं करस्य कुर्वीत करणे न्यश्चकम्मणः" । इति कर्मपदीपोकप्रकारेण कर्त्तव्यम् । स खवयं-"भूमिजपः"इत्याख्यायते ॥०॥ ३ ॥०॥
For Private and Personal Use Only