________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ४ का.] रह्यसूत्रम् ।
६१ इत्यत्र । अपरे तु, चैत्याः पाकयज्ञपक्षे कर्मण स्तत्रानुपदेशात् तद्विषयताम् एतस्य मन्यन्ते । तदप्यसमीचीनम् । कुतः ? । अनाज्ञातेषु तथाऽऽदेशम्-इत्यनेनैव तत्र कर्मण: सिद्धत्वात् । अन्ये तु, पारिभाषिकमेव अस्य कालम् इच्छन्ति ।
तत्र वदामः । एकाप्टका, दूति भन्त्रलिङ्गादेकाष्टकायामेतत् कर्त्तव्यम् । तदिदं मामर्थ्यम् नाम प्रमाणं वाक्यस्य बाधकम् । श्राह । का पुनरियमेकाष्टका नाम ? । तत्र व्याख्यातारो विवदन्ते । माध्यः मन्तराऽष्टका एकाएका, इति पूर्वमीमांसाभाष्ये प्राचार्येण शवरखामिना निर्णतम् । “माघी वैकाष्टका श्रुतेः” इति सूत्रयता भगवतो जैमिनेरप्येष एवाशयोऽवधार्यते । तथा आपस्तम्बोऽपि । "माध्याः पौर्णमास्था उपरि षड़टका, तस्यामष्टमी ज्येष्ठा या सम्पद्यते तामेकाष्टकेत्याचक्षते"-इति सूत्रयन्नेतदेवाह। महाब्राह्मणभाव्ये तु चैत्यनन्तरायामप्यष्टम्यामेकाटकाशब्दप्रयोगः समर्थितः । केचित्तु, प्रौष्ठपद्या ऊर्द्धकालभाविन्यामष्टकायामेतेन भाव्यम्,-दूति वदन्ति । तदत्र भवन्तो भूमिदेवाः प्रमाणम् ॥०॥३४॥०॥
दूति महामहोपाध्यायराधाकान्तमिद्धान्तवागीशभट्टाचार्यात्मजस्य श्रीचन्द्रकान्ततीलङ्कारस्य कृतौ गोभिलीयग्टह्यसूत्रभाय्ये चतुर्थप्रपाठकस्य चतुर्थी काण्डिका ॥०॥
-
For Private and Personal Use Only