________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र. ४ का.]
स्थालीपाकारताऽन्यत् ॥ २५ ॥ व्याख्यातार्थ सूत्रम् ॥ ॥२५॥ कणे प्रज्ञायमाने गोलकानां मध्यमपर
यात्-यत् कुसीदमिति ॥ २६ ॥ ऋणं प्रसिद्धम् । तस्मिन् प्रज्ञायमाने प्रकर्षेण ज्ञायमाने गोलकानां पलाशानां मध्यमपणेन मध्यमच्छदेन जुहुयात् यत् कुसीदमितिमन्त्रेण । अथ, प्रज्ञायमाने, दूत्येतदवाच्यम् ? –इति चेत् । न । यत् खलु ऋणं प्रकर्षण ज्ञायत एव केवलं, न पुनरपाकतुं शक्यते, तत्रैव होमोऽयं यथा स्थादित्येवमर्थत्वात् । एतदुक्तं भवति । ऋणमवश्यमपाकरणीयम् । अन्यथा दोषश्रवणात् । तथाच स्मर्यते ।
“तपस्वी चाग्निहोत्री च ऋणवान् म्रियते यदि ।
अग्निहोत्रं तपश्चैव तत्सर्वं धनिनो भवेत्” । इति । “ऋणानाञ्चानपक्रिया” इति चोपपातकगणनायां मननोकम् । यदि पुनरत्यन्तमेवाधनो न शक्नोति तदपाकर्तुम्, तदैवं जुहुयात्, इति । अन्ये तु वर्णयन्ति,-नष्टे धनिके तदृक्थभागिनि च, ऋणापाकरणासम्भवे जुहुयात् , इति । तदसङ्गतम् । कस्मात् ? । राज्ञोऽप्यन्ततस्तदृक्थभाक्त्वात् । नहि कदाचिदपि राज्ञोऽभावोऽस्ति । तमिमं हामं यावत्सङ्ख्यम्टणं तावत्मङ्ख्यमिच्छन्ति । क्षिप्रहामञ्च मन्यन्ते ॥ ॥२७॥०॥
अथातो हलाभियोगः ॥ २७ ॥ बर्मियते, ति सूत्रशेषः । अथशब्दः पूर्वप्रकृतापेक्षः । कथं
For Private and Personal Use Only