________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्रम् ।
[४ प्र. 8 का. ]
६७५
कथं पुनज्ञीयते यन्मणिभद्रयागादिषु मणिभद्राय — इत्यादिना निव्र्वापहामी भवतः, इति ? । उच्यते ।
अनाज्ञातेषु तथाऽऽदेशं यथाऽष्टकायै स्वाहेति जुहोति ॥ २४ ॥
--
श्री सम्यक् ज्ञातं श्रज्ञातं तन्न भवतीत्यनाज्ञातम् । तेषु यथैव श्रूयते, तथैवादेशो यथा भवति तथा कर्त्तव्यम् । एतदुक्तं भवति । येषु समशनीयचरु होमोपनयनत्रतान्त सावित्रचरु होमादिषु देवता निर्दिश्यन्ते न मन्त्राः; तेषु यदेव श्रूयते तदेवादिश्य निर्व्वपेत् जुहुयाच्च । एवञ्च, समशनीयचरौ श्रग्नये त्वा, इत्यादिर्निर्वापः, श्रग्नये स्वाहा,इत्यादिकश्च होमः । एवं सावित्रचरुहोमादिषु यथायथमूहनीयम् । येषु पुनराग्रहायण्यादिषु देवता नोपदिश्यते होममन्त्रञ्चाव्यक्तलिङ्गः: तेषु यावन्मात्रं वाक्यादवगम्यते, तावत एवादेशः निर्व्वीपे । श्रादिष्टमन्त्रेण तु होमः। येषु पुनश्चैत्र्यादिषु मन्त्रो नोपदिश्यते नापि देवता : तेषु चैत्ये त्वा, — इत्यादिना निर्व्वीपः, चैत्यै स्वाहा, –— इत्यादिना च होमः स्यात्। अत्र दृष्ठान्तः। ‘यथाऽष्टकायै स्वाहेति जुहोति' – इति । यथा खल्वष्टकायै स्वाहेति यदेव कर्म्मणो नामधेयं तेनैव जुहाति, एवं चैव्यादिष्वपि - इति बेोद्धव्यम् । श्राह । ननु, विषम उपन्यासः, - चैत्र्यादिषु देवता मन्त्रश्च नोपदिश्यते, न चैवमष्टका । तत्र हि देवता उपदिष्टा । उच्यते । सत्यमुपदिष्टा तत्र देवता, तथापि तु अन्तिमाटकायां 'अष्टकाये स्वाहा' – इति कनामधेयेनैव होमः क्रियते, सूत्रप्रामाण्यात् । स खल्वयं कर्म्मनामधेयेन होमोऽच दृष्टान्तीकृतः । तस्माददोषः ॥ ० ॥ २४ ॥ ०॥ 4Q 2
For Private and Personal Use Only