________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७४
गोभिलीयं
[४ प्र. ४ का.]
फलीकुर्यात्। सकृत् प्रक्षालयेत् । प्रमव्यमवघट्टयेत् । दक्षिणत उद्दासयेत् । न च प्रत्यभिधारयेत् । अष्ट स्य चात्र निवृत्तिः स्यात् । कुतः ? । मन्त्रलिङ्गविरोधात् । एवञ्च, अवदानानि सन्नीय त्रिधाविभागमकृत्वैव स्थालीपाकाहता मौविष्टकदाता वा अवदाय, पिलभ्यः स्वाहा,-इति मकदेव जुहुयात् । प्रोक्षणनिळपप्रधानहोमाश्च प्राचीनावीतिनैव कर्त्तयाः । कुतः ? । पित्रर्थत्वात् । तथा चोक्तम् ।
"प्राचीनावीतिना कार्य पित्येषु प्रोक्षणं पशः । दक्षिणोदासनान्तञ्च चरोनिर्वपणादिकम् । मन्नयश्चावदानानां प्रधानार्थी न हीतरः ।
प्रधानहवनञ्चैव शेषं प्रकृतिवद्भवेत्” । इति ॥ ॥२२॥०॥
देवदैवत्येषु-जातवेदो वपया गच्छ देवानिति ॥२३॥
देवार्थं ये पशव पालन्यन्ते त मे देवदैवत्याः पशवः । तेषु जातवेद इति मन्त्रेण, वां जुहुयात्,-इत्यनुवर्त्तते । आह । के पुनर्देवदैवत्याः पशवः ? । उच्यते । योऽयं वास्तुकर्मणि 'कृष्णया गवा यजेत'इत्येवमादिना सूत्रयिष्यते: ये च तन्त्रान्तरे,-'हिरण्यकामा वा याम्यायां मणिभद्रं रोहितेन यजेत, गोऽश्वकामः पौर्णमास्यां श्वेतेन', इत्येवमादयः, त दमे देवदैवत्याः पशवः । तत्र, वास्तुकर्मणि वास्तोष्यतये त्वा, दूति निर्वापः । हामे तु विशेषं वक्ष्यति । मणिभद्रयागादिषु मणिभद्राय वा, इत्यादिनिर्वापः । मणिभद्राय साहा, इत्यादिको होमः ॥ ॥२३॥०॥
For Private and Personal Use Only