________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४ प्र. ४ का. ]
होमो ऽपि पूर्ववत्तन्त्रेणैव स्यात् । कुतः ? | न्यासेन स्वातन्त्र निराकरणात् । तथा चोक्तम् ।
गृह्यसूत्रम् ।
६७३
शाकस्य व्यञ्जनतयोप --
“शाकञ्च फाल्गुनाष्टम्यां स्वयं पत्त्यपि वा पचेत् । वास्तुशाकादिहेामश्च कार्य्यः पूर्णाष्टकाssवृता” |
-
इति । अन्वाहार्य्यः, -इति केचित् पठन्ति । तत्र च, छान्दसत्वमाश्रयणीयम् । श्रन्वाहार्य्यश्च रुरिति चरुसम्बन्धविवक्षया वा कथञ्चित् समाधेयम् । अन्वाहार्थे – इति पाठे श्रम्वाहार्ये पूर्वीकायाः प्रकृतत्वादोदनचरोः पश्चादाह्रियमाणे मांसचरी - तत्स्थाने, — इत्येतत् । तथाच तदीयमांमचरुस्थाने अत्र शाकं व्यञ्जनं कुर्य्यात्, – इत्यर्थः । अन्वाहार्यश्राद्धे, — इति कथं न वर्ण्यते ? | 'नाष्टकासु भवेत् श्राद्धम्'– इत्यष्टकाकर्म्मण्यन्वाहार्य्यश्राद्धनिषेधात् — इत्याह । तस्माद् यथोक्त
एवार्थः ॥ ० ॥ २९॥ ॥
अथ पितृ देवत्येषु पशुषु - बह वपां जातवेदः पितृभ्य इति वपां जुहुयात् ॥ २२ ॥
For Private and Personal Use Only
अथशब्दः पूर्वोक्तायाः पश्वितिकर्त्तव्यताया श्रनुवृत्त्यर्थः । पित्रर्थं ये पशव श्रलभ्यन्ते त इमे पितदैवत्याः पशवः । तेषु पिढदैवत्येषु पशुषु ववपामिति मन्त्रेण वषां जुहुयात् । पिढदैवत्याश्च पशवः, - “श्रोत्रियेऽभ्यागते श्राद्धं महेाचेण महाऽजेन वा दद्यात् " - इत्येवमादयस्तन्त्रान्तरोक्ता आदरणीयाः । कुतः ? | स्वशास्त्रे विधानाभावात् । श्रदनचश्चात्र, पितृभ्यस्त्वा - इति निब्र्व्वीपः स्यात् । कस्मात् ? । पित्रर्थत्वात् । एवं सव्योत्तराभ्यां पाणिभ्यां सकृदवहन्यात् । सकृत्
4Q