________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8 प्र. ४ का. ]
ऽन्तरमत्र विधीयते, — इत्यवगच्छामः । एककार्य्यर्थत्वात् पूर्वस्य वाससेा निवृत्तिः स्यात् । (तन्निवृत्त्या च मन्त्रोऽपि तावन्माचः तदीयो निवर्त्तते 1 तेन, " एतदः पितरो वासः " - इति श्राद्धकल्पोक्रेनैव मन्त्रेण वाससेा निधानं सिध्यति) । एकवचनसंयोगाच्चैकमेवात्र वासः स्यात् । अपूर्वं खम्वच वासेो विधीयते । अतस्तदेकत्वमपि पश्येकत्ववदिवचितुमुचितमेव ।
ह्यसूत्रम् ।
६९१
इदमिदानीं सन्दिह्यते । किं श्रौतस्य गृह्येोकस्य च पिण्डपिढयज्ञस्य समुच्चयः, होखित् विकल्प:, अथवा स्मार्त्तस्य निवृत्तिः, उताहेा श्रौतस्यैव ? - इति । उच्यते । स्मार्त्तस्य निवृत्तिस्तावन्न भवति । कस्मात् ? । उपदेशस्यानर्थकत्वापत्तेः । समुच्चयोऽपि न युज्यते; एकार्थत्वात् । विकल्पोऽप्यसङ्गतः; श्रतुल्यबलत्वात् । पक्षे स्वशाखाश्रयं खल्वेवं परित्यज्येत । तच्चानिष्टम् । तस्मात् श्रीतस्यैव निवृत्तिरित्यवगच्छामः । पिण्डपितृयज्ञः खल्वस्मच्छाखायां नास्ति । न खलु स्वशास्त्रोक्तमुपेच्य पारशाखिकं श्रतमुपादातुमुचितम् । तथाच कर्म्मप्रदीपः ।
"क्रिया त्रिविधा प्रोक्ता मुनिभिः कर्म्मकारिणाम् । अक्रिया च परोक्ता च ढतीया चायथाक्रिया |
स्वशाखाश्रयमुत्सृज्य परशाखाश्रयन्तु यः । कर्त्तुमिच्छति दुर्मेधा मोघं तत्तस्य चेष्टितम्” । इति । श्रपिच । पूर्व्वच उदपात्रान्तत्वं पिण्डपितृयज्ञस्य सूत्रयनाचार्यः पारशाखिकं श्रीतं नानुमन्यते । श्रोते पिण्डपितृयज्ञे खल्ववधाना जिघ्रणादिकमपि उदकनिषेकात् परतः श्रूयते । अपर श्राह । निमतः मार्च एवाचार्य्यसम्मतः पिण्डपिढयज्ञः, श्रीताग्निमतस्तु
For Private and Personal Use Only