________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र. 8 का.]
सौवीराञ्जनं व्याख्यातमेव । अभ्यज्यतेऽनेन, इत्यभ्यञ्जनं तैलम् ॥०॥
न सुरभि ॥१३॥ अत्र कर्त्तव्यम् ॥०॥ १३ ॥०॥
न निहूवनम् ॥ १४ ॥ निहवनं नमस्कारोपलक्षितै मन्त्रैः-दक्षिणेत्तानो पाणी कृत्वा,इत्येवमादिना तत्र यदुक्तमासीत्, तदत्र न कर्त्तव्यम् । ते खल्विमे अतिदेशागता दह प्रतिषिध्यन्ते ॥०॥१४॥०॥
उदपावान्तः ॥ १५ ॥
पिण्डपरिषेकार्थमुदपात्रमन्तो यस्य, सोऽयमुदणत्रान्तः पिण्डपिटयज्ञः स्यात् । ननु, एतदवाच्यम्, अतिदेशादेव प्राप्तत्वात्। उच्यते । यावदुक्तकरणार्थमेतदुच्यते। तेन, गन्धादीन् निःक्षिपेत्तूष्णीम्'-दूत्यादिकं कर्म अत्र न भवति । अन्यदपि प्रयोजनमुत्तरत्र वक्ष्यामः ॥०॥ ॥१५॥०॥
वासस्तु निदध्यात् ॥ १६ ॥ ऋजुरक्षरार्थः । ननु, किमर्थमिदमुच्यते, वास: खल्वतिदेशादेव लभ्यते ? । वासोऽन्तरविधानार्थम्-इत्याह । तुशन्देन किं वासो व्यवच्छिद्यते । कथं ज्ञायते ? । पूतिं खलु वासोऽतिदेशादेव प्राप्यते,इति तदर्थं पुन: सूत्रणमनर्थकमेव स्यात् । तस्माद् वासा
For Private and Personal Use Only