________________
Shri Mahavir Jain Aradhana Kendra
ईईड
www.kobatirth.org
गोभिलीयं
Acharya Shri Kailassagarsuri Gyanmandir
[8 प्र. ४ का. ]
दक्षिणा हविषः सँस्करणम् ॥ ५ ॥
अतिदेशखरसादाहिताग्नेरपि शालाग्नावेव माभूदित्येतदर्थमिदमुच्यते । यो गाईपात्यादानीय प्रणीयते सेोऽयं दक्षिणाग्निः । ऋज्वन्यत्
॥ ० ॥ ५ ॥ ० ॥
ततश्चैवातिप्रणयः ॥ ६॥
ततस्तस्माद्दक्षिणाग्नेरेवाग्निमुद्धृत्य अतिप्रणयः पूर्वोक्तलक्षणः कर्त्तव्यः । च शब्दात् हामोऽपि तत्रैव स्यात् ॥०॥ ६ ॥०॥
शालाग्नावनाहिताग्नेः ॥ ७ ॥
श्रनाहिताग्नेः स्मान्तीः शालाग्नौ हविषः संस्करणं होमश्च कर्त्तव्यम | अतिप्रणयश्च तस्मादेव स्यात् । ननु, एतदवाच्यं शालाग्निः खल्वेतदर्थं एव । उच्यते । दक्षिणाग्नेरुपदेशादनाहिताः पिण्डपितृयज्ञ एव न स्यादित्यपि कस्यचिदाशङ्का स्यान्मन्दमतेः । श्रतस्तन्निरासार्थमेतदुच्यते ॥ ० ॥ ७ ॥ ॥
एवन्तावत् श्रहिताग्निशालाग्न्यो यौ विशेषः स सूत्रितः, अथेदानीमुभयसाधारणणें इतिकर्त्तव्यतां वकुमुपक्रमते ।
एवं वा
किं समस्त एवं अन्वष्टक्यप्रकारः सूचितविशेषव्यतिरेकेण पिण्डपित - यज्ञे स्यात् ? । एवं खलु प्राप्तम् । एवं प्राप्ते इदमारभ्यते,—
For Private and Personal Use Only