________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ४ का.]
ग्रलसूत्रम्।
इति स्मरणात् पिण्डानां पितॄणामन्वाहार्य मासैकटप्तिजनकं यत्ततथेति तत्त्वकारोक्तं युक्तमिति वाच्यम् । केवलान्वाहार्यपदे तदर्थासम्भवात्। व्युत्पत्तेरशब्दवाच । पूर्वाकग्टह्यान्तरविरोधाच्च । प्रकरणश्चैवमुपरुड्येत । तस्मादनग्गेरमावस्याश्राद्धं नान्वाहार्यमित्यादरणीयम्।
तदत्र ब्राह्मणभोजनं पिण्डदानञ्च षणां कर्त्तव्यम् । तथा च ग्टह्यान्तरम् । “मध्यमं पिण्डं पन्यै प्रदाय ब्राह्मणान् भोजयित्वा तथैवमेतेभ्यो मातुश्च पिसभ्यस्त्रीन पिण्डानवनेनिज्य निदध्यात्" इति। अत्र, मध्यमं पिण्डम्-इति पिण्डपित्यज्ञविषयम् । ब्राह्मणान् भोजयित्वा, इत्यादिकमन्वाहार्यश्राद्धपरम् । एतेभ्यः, दूति पिण्डपित्यज्ञोपात्ताः स्वपितरः पराम्नश्यन्ते। एवञ्च, पिण्डपिढयज्ञेऽपि त्रयाणमेव पिण्डदानं स्यात् । तथाच कर्मप्रदीपः ।
"कसमन्वितं मुक्त्वा तथाऽऽद्यं श्राद्धषोडशम् ।
प्रत्याब्दिकञ्च, शेषेषु पिण्डाः स्युः षडिति स्थितिः”॥ इति । कर्पूश्च पिण्डपित्यज्ञेऽप्यस्ति । ॥ ३ ॥०॥ मकृत्कृतेनैव कृतं मामस्त, इत्येतदर्थमाह,
__ मासीनम् ॥ ४॥
मामि मासि क्रियते, इति मासीनम् । अधिकारात् श्राद्धदयमपि, न पुनरानन्तातिरेकात् अन्वाहार्य्यमेव ॥०॥ ४ ॥०॥ समाप्ता प्रासङ्गिकी कथा । प्रकृतमधुनोच्यते,
4 P2
For Private and Personal Use Only