________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र. ४ का.]
भोजयेत्” इति पिण्डस्यासम्भवे ब्राह्मणभोजनमुपदिशति ॥१॥ ॥ १ ॥०॥ अतिदेशवशानवम्यामेव माभूदित्यतः कालान्तरविधानार्थमिदमाह । एवं वा। कः पुनः पिण्डपित्यज्ञो नाम, योऽयमन्वष्टक्यस्थालीपाकेन व्याख्यातः, को वा तस्य कालः ? । उच्यते ।
अमावस्यायां तत् श्राद्धम् ॥२॥ तत् पिण्डपित्यज्ञाख्यं श्राद्धममावस्थायां कर्तव्यमिति सूत्रशेषः । अविहिते पिण्डपिढयज्ञे कथं तत्र धर्मप्रदेशः इति इदमर्थतः सूत्र पूर्व द्रष्टव्यम् ॥०॥ २ ॥०॥ अमावस्याप्रसङ्गादाह,
__ इतरदनाहार्यम् ॥३॥ इतरदपरं द्वितीयमित्यर्थः। अनु पश्चादाह्रियते, इत्यवाहार्यं नाम श्राद्धममावस्यायां कर्त्तव्यमित्यनुवर्त्तते । कस्य पश्चात् ? । पिण्डपिटयज्ञपिण्डानां, तस्यैव वा, इति ब्रूमः । कस्मात् ? । उपस्थितत्वात् । अत एव पिण्डान्वाहार्यकम्-इत्याख्यायते । तथाच ग्टह्यान्तरम् ।
“यत् श्राद्धं कर्मणामादौ या चान्ते दक्षिणा भवेत् ।
अमावास्यां द्वितीयं यदन्वाहायं तदुच्यते” ॥ इत्यमावस्थायां द्वितीयस्य श्राद्धस्थान्वाहार्यत्वं स्मरति । न च,
"पिण्डानां मासिकं श्राद्धमन्वाहावें विदुर्बुधाः” ।
For Private and Personal Use Only