________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीय-गृह्यसूत्रे
चतुर्थप्रपाठके चतुर्थो काण्डिका ।
अथेदानी प्रसङ्गालाघवाञ्च अन्वष्टक्यविधिं पिण्डपित्यज्ञेऽप्यतिदिशबाह,
अन्नष्टक्यस्थालीपाकेन पिण्डपित्यज्ञो व्याख्यातः
अन्वष्टक्यकर्मणि यः स्थालीपाकः विहितः, तेनैव विधिना पिण्डपिटयज्ञो व्याख्यातः। ननु, अन्वष्टकोन, इति वक्तव्ये किमर्थम् अन्वष्टक्यस्थालीपाकेन, इति स्थालीपाकग्रहणं क्रियते ?। मांसचरुनिवृत्त्यर्थमित्याह। कथं नाम ? । अन्वष्टकोनेतिकृते स्थालीपाको मांसचरुश्चेतिद्वयमेव प्राप्यते । तत्र यत् पुनः स्थालीपाकग्रहणं करोति, तद्बोधयति मांसचरूरत्र नास्तीति । तहि पित्यज्ञः, इति वक्रव्ये पिण्डपिढयज्ञः, इति कथं पिण्डग्रहणं क्रियते ?। उच्यते। पित्यज्ञः,दूति कृते खल्वन्वाहा-दावपि अयमतिदेशः स्यात् । मचानिष्टः । पिण्डपिढयज्ञधर्मः खल्चेतेषु श्राद्धकल्ये अतिदिश्यते । एतस्मात् कारणात् पिण्ड पिढयज्ञः, इति सूचितम् । अथवा। पिण्डग्रहणं कुर्वनेतस्य पित्यज्ञस्य पिण्डप्रधानतां दर्शयति । कथं नाम ?। पिण्डैरेव यत्र पितर दूज्यन्ते सोऽयं पिण्डपिढयज्ञः । तथाच निगमः । “आहिताः पित्रर्चनं पिण्डैरेव, अपि वा ब्राह्मणान्
4P
For Private and Personal Use Only