________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[प्र. ३ का.]
"त्रोंस्तु तस्माद्धविः शेषात् पिण्डान् कृत्वा समाहितः ।
औदकेनैव विधिना निवपेद्दक्षिणामुखः” । इति। परस्तादपि,
"पिण्डनिवपणं केचित् पुरस्तादेव कुर्वते” । इति,-पिण्डप्रदान एव पिण्डनिपणपदप्रयोगो दृश्यते । अपिच । कस्यचित् पिण्डदानम्, कस्यचिच्च ब्राह्मणभोजनं प्रधानम्-इत्यतो हि कारणात् समुच्चयपक्षः प्रादुर्भवति। तत् किमत्र करिष्यन्ति अन्यतरप्राधान्यावेदकानि वचनानि । स खल्वयमलङ्कारः समुच्चयपक्षस्य न दोषः । अथवा । क्वचित् पिण्ड: प्रधानम्,- यथा गयापिण्डपित्यज्ञादौ । क्वचित् ब्राह्मणभोजनम्, यथा नित्यश्राद्धादौ । कचिच्चोभयम,-यथा मपिण्डीकरणादौ । इत्यस्तु किं विस्तरेण ॥०॥ ३७ ॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्यात्मजस्य श्रीचन्द्रकान्ततीलङ्कारस्य कृतो गोभिलीयग्टह्यसूत्रभाष्ये चतुईप्रपाठकस्य तृतीया काण्डिका ॥०॥
For Private and Personal Use Only