________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ३ का.]
रह्यसूत्रम् ।
इति वाक्यम् । तत्रापि, तेनाग्नौकरणम् इति हेतुत्वेनोपादानम् , यतस्तेनाग्नाकरणम्, अतस्तेनैव पिण्डदानम् इति तस्यार्थः । अग्नीकरणशेषेण एिण्डदानम्-इत्ययमत्र हेतुः। तदिदं वाक्यम्
"आमश्राद्धं यदा कुर्यात् पिण्डदानं कथं तदा ।
ग्टहादाहृत्य पक्वान्नं पिण्डं दद्यात् तिलैः सह" । इत्येतत्पक्षाननुज्ञानार्थम्। तथा मनुः ।
"महपिण्डक्रियायान्तु कृतायामस्य धर्मतः ।
अनयवास्ता कार्य पिण्डनिळपणं सुतैः”। इति। न च, पिण्डनिवपणं पित्रे दानम्-इति रघुनन्दनव्याख्यानं युक्तम्-इति वाच्यम् । यथाश्रुतार्थ-परित्यागे मानाभावात् । अस्य, इति करणाच्च पिण्डदानस्यैवावगतेः । पित्रुद्देश्यकदानमात्रस्यैव तदितिकर्त्तव्यतापत्तेश्च । “न निर्बपति यः पिण्डम्” इति, "पिण्डदोऽशहरः” इति, "पिण्डं दद्याद्धनं हरेत्”-इति, "त्रिषु पिण्डः प्रवर्त्तते"-इति, "पिण्डोदकक्रियाहेतोः” इति, "नरकस्याश्च हप्यन्ति पिण्डैर्दत्तैः” इति चैवमादिषु शतश: पिण्डदानस्य प्राधान्यावगमाच्च ।
“एवं निर्बपणं कृत्वा पिण्डांस्तांस्तदनन्तरम्” । इति परतस्तेनैव पिण्ड निवपणस्योपसंहाराच्चैवमवगच्छामः । (उपसंहारः खल्वयं श्राद्धप्रकरणशेषे दृश्यते। तस्मात्,-पिण्डप्रदानस्यैवायमुपसंहारो न श्राद्धकर्मणः, इत्यपि न शक्यते वकुम् ।) अपिच । पिण्डदान एव पिण्डनिळपणपदं प्रयुक्तवान् मनुः,इत्यवगच्छामः। कथं कृत्वा ? । श्टण । पुरस्तात्तावत्,
For Private and Personal Use Only