________________
Shri Mahavir Jain Aradhana Kendra
६६२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
"भोजयेदथवाऽप्येकं ब्राह्मणं पङ्गिपावनम्” ।
[४ प्र. ३ का. ]
इति ।
“उच्छिष्टमन्निधौ कार्य्यं पिण्डनिर्व्वपणं बुधैः” ।
इति च ब्राह्मणभोजनं पिण्डनिर्व्वपणञ्चाभिधाय, पश्चात् तद्वचनारम्भात् । तदनेनायमपि समुच्चयपतमुपालयति - इत्यवगच्छामः । यच्च पुलस्त्यवचनमुपदर्शितम् — 'संस्कृतं व्यञ्जनाय्यान्नम् - इत्यादि, तस्यापि,—श्रद्भूया यस्मादत्रानं दीयते - तस्मादिदं कर्म श्राद्धमित्युच्यते, - इति वचनव्य क्त्या अन्नदानादतिरिक्तमपि किञ्चिदवगम्यत एव । तदिदम् - " संज्ञायाम् ” - इति वा, " तेन कृतम् " - इति वा, " तस्येदम् ” - इति वा भवति । जयादित्यस्तु “चूड़ादिभ्य उपमया - नम्” – इत्यभिधाय, चूड़ा प्रयोजनमस्य-चौड़म् । श्रद्धा प्रयोजनमस्य–श्राद्भूम्”–इत्युदाजहार । रघुनन्दनस्तु पुलस्त्यवचनमालोचन - मात्रेण पश्यन्, – श्रद्धया अन्नादेर्यद्दानं तत् श्राद्धमिति वैदिकप्रयोगाधीनयोगिकम् - इति वर्णयाञ्चकार । तदमङ्गतम् । कुतः ? | योगार्थस्याशब्दत्वात्। न खलु श्रद्धया अन्नादेदीनम् - इत्ययं योगार्थ : श्रद्भूशब्दादवगम्यते । न खलु दानार्थे तद्भितमुपदिशन्त्याचायाः । सेाऽयम् अशाब्दीं व्युत्पत्तिं परिकल्प्य शिव्यान् व्यामोहयति, इति किमत्र ब्रूमः । दर्शितञ्चास्माभिः पिण्ड पिढयज्ञस्यापि श्राद्धलमाचायानुमतम् । तदपि न प्रस्मर्त्तव्यम् । यच्च
।
“अदैवं भोजयेत् श्राद्धं पिण्डमेकञ्च निर्व्वपेत्” । इति वचनम् । तत्र खल्वन्ने श्राद्धशब्दः प्रयुक्तः । यदपि, “आमश्राद्धं यदा कुर्य्याद् विधिज्ञः श्राद्धदः सुतः । तेनान करणं कुर्य्यात् पिण्डांस्तेनैव निर्व्वपेत्” ।
For Private and Personal Use Only