________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[प्र.३ का.
रह्यसूत्रम् ।
प्रथमः पक्षः, तदा विफलः प्रयासः । पिण्डदानस्यापि श्राद्धत्वाभ्युपगमात् । कान्तरवचनानुपपत्तिश्च स्यात् । सति ब्राह्मणभोजने पिण्डदानमङ्गम् , असति प्रधानम्, इति ब्रवीमि, इति चेत् । निरङ्कुशत्वात्ते तुण्डस्यैवं ब्रवीषि, न तु प्रमाणोपेतं ब्रवीषि। रूपभेदाभावात्। यदेव खल्वस्थ रूपमङ्गस्य तदेव प्रधानस्थापि, इति सति ब्राह्मणभोजने अङ्ग, विपरीतमन्यथा, इत्यत्र विशेषहेतुर्नास्ति । फलश्रुतेरुभयत्राप्यविशेषेणैकशेषस्य दुष्करत्वात्। अपि च। एतावतापि श्राद्धशब्दाभिधेयत्वमस्याभ्युपगच्छत्येव भवान्, इति असतीव ब्राह्मणभोजने, सत्यपि तस्मिन् प्राधान्यमेवास्य अभ्युपगम्यताम् , कृतम - जरतीयेन । कुत्रचिदेकस्य कुत्रचिच्चान्यस्य प्राधान्ये पुनरभ्युपगम्यमाने अनेकार्थत्वमस्य कल्पनीयं स्यात् । तच्चान्याय्यम्।उत्तर इति चेन्नाचार्यविरोधात् । इति चेत् पश्यमि, उत्तरः पक्षः तर्हि समाश्रयिष्यते,इति। एतदपि न पारयसि । कस्मात् ?। आचार्याविरोधात् । "तत् श्राद्धम्” इति सूत्रयन्नाचार्य: पिण्डपित्यज्ञस्यापि श्राद्धृत्वमुपदिशति। विरुध्यते खल्वेतद्भवताम । पिण्डप्रधाना हि सः । तस्मात् , पिण्डमन्तरेणेव ब्राह्मणभोजनमन्तरेणापि श्राद्धदर्शनात् नैतदेकतरस्मिन्नेव पक्षे चोदयितव्यं भवति; दयोः समानत्वात्-इति सन्तोएव्यम् । समुच्चयपक्षः खल्वेवमुपादलितो भवति । यस्तु, ब्राह्मणभोजनमात्रं प्रधानमाह, स कथं पिण्डदानमात्रस्य श्राद्धवं समर्थयितुं शक्ष्यति, इति न विद्मः ।
यदपि शङ्खवचनमुपन्यस्तं'श्राद्धं कृत्वा प्रयत्नेन'–इत्यादि, सोऽयं केवलान्नोत्सर्ग श्राद्धपदप्रयोगः, दूति वर्णितञ्च । तदप्यनभिज्ञवचनम् । कुतः ?।
For Private and Personal Use Only