________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र.
का.]
इति । इदमिदानों मन्दिह्यते । किं ब्राह्मणभोजनमत्र प्रधानम् , आहाखित् पिण्डदानम्, उताहो उभयम् ?-दुति । आह । शेषेण पिण्डदानविधानात् पिण्डदानं प्रतिपत्तिरेव; कस्मादियं विचारणा ?। उच्यते । मत्यमत्र शेषः प्रतिपाद्यते, तथापि नामी प्रतिपत्तिः । बलिहरणे शेषस्य प्रतिपादनेऽपि न तत्प्रतिपत्तिः, इति यथा । किं कारणम् ? । अर्थकर्मणि तस्य प्रतिपादनात् । कथं ज्ञायते ? । फलार्थवादोपपत्तेः। तच्च तत्र तत्र उदाहरिष्यामः । विनाऽपि शेषं पिण्डदानदर्शनाच्च । क ? । पिण्डपित्यज्ञादौ। ब्राह्मणभोजनस्य खल्वभावे कस्य शेषः प्रतिपादयिष्यते। ब्राह्मणभोजनस्य पुरस्तादपि केषाञ्चित् पिण्डदानविधानाच्चैवमवगच्छामः । तस्मात्,-अर्थकमवासी, न प्रतिपत्तिः । तत्रैव च शेषः प्रतिपाद्यते। अथवा। प्रतिपत्त्यर्थकर्म पिण्डदानं न प्रतिपत्तिरेव । तस्मात्,-भवति विचारणेषा । तत्र, उभयं प्रधानम्-इति भट्टनारायणप्रभृतयो मन्यन्ते । श्लोकानपि उदाहरन्ति ।
"प्राधान्यं पिण्डदानस्य केचिदाहुमणीषिणः । गयादी पिण्डमात्रस्य दीयमानस्य दर्शनात् । भोजनस्य प्रधानत्वं वदन्त्यन्ये महर्षयः । ब्राह्मणानां परीक्षायां महायत्नप्रदर्शनात् । श्रामश्राद्धविधानस्य विना पिण्डं क्रियाविधेः । तदालभ्याप्यनध्याय-विधानश्रवणादपि । मतवैधमुपादाय मम वेतत् हृदि स्थितम् । प्राधान्यमुभयोर्यस्मात् तस्मादेष समुच्चयः” ।
For Private and Personal Use Only