________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[४ प्र. ३ का. ]
अथेदानीमनेनैव श्राद्धविधिना श्राद्धान्तराण्यपि व्याख्यातानि - इति मनसि कृत्वा, वृड्यादिषु तावत् कञ्चिद्विशेषमुपदिदिक्षुराह, दृद्धिपूर्त्तेषु युग्मानाशयेत् ॥ ३५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यत्रम् ।
“वृद्धिः पुरुषसंस्कारः,”–इति भट्टभाष्यम् । पूर्त्तम्— " वापीकूपतड़ागादि देवतायतनानि च । अन्नप्रदानमारामाः पूर्त्तमित्यभिधीयते” ।
इत्याद्युक्तलक्षणम् । तेषु, पित्रर्थमपि युग्मान् ब्राह्मणान् भोजयेत् । अस्मादपि लिङ्गात् श्रन्वष्टको ब्राह्मणभोजनमवगम्यते ॥ ० ॥ ३५ ॥ ० ॥
प्रदक्षिणमुपचारः ॥ ३६ ॥
40
प्रदक्षिणं यथा भवति, तथा दर्भासनादिक उपचारः कर्त्तव्यः - इति सूत्रशेषः । “दृद्धिपूर्त्तषु”- इत्यनुवर्त्तते ॥ ० ॥ ३६ ॥ ॥
यवैस्तिलार्थः ॥ ३७ ॥
६५०
तिलैयाऽर्थः प्रयोजनं क्रियते स यवैः कर्त्तव्यः । दृद्धिपूर्तेषु - इत्येव । सेोऽयं संक्षेपतः श्राद्धविधिः । विस्तरतस्तु, कर्मप्रदीपे वाशिष्ठे च कल्पे द्रष्टव्यः । श्राद्धमन्त्राश्च परिसंख्यानादुपलब्धव्याः |. अतएव कर्मप्रदीपे कात्यायनेनेाक्तम् ।
" एष श्राद्धविधिः कृत्स्न उक्तः संक्षेपता मया । ये विदन्ति न मुह्यन्ति श्राद्धकर्मसु ते क्वचित् ।
दर्द शान्त्रञ्च ग्टञ्च परिसंख्यानमेव च । वशिष्ठञ्च यो वेद स श्राद्धं वेद नेतरः” ।
For Private and Personal Use Only