________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ३ का.]
ग्टह्य सूत्रम्।
६५६
इति । अत्र च, निमित्ततो ब्राह्मणभोजमस्य पिण्डदानस्य चाननुछानेऽपि उभयोः प्राधान्यं नानुपपन्नम्। असोमयाजिपक्षे दधिपयोयागवत् । फलश्रुतिश्चोभयत्राप्यस्ति । ब्राह्मणभोजनं प्रधानं पिण्डदानमङ्गम्-दूति शूलपाणिप्रभृतयः । अन्नोत्सर्गः प्रधानम्-दूति वाचस्पतिमिश्रादयः । स्मरन्ति च ।
"श्राद्धं कृत्वा प्रयत्नेन त्वराक्रोधविवर्जितः ।
उष्णमन्नं दिजातिभ्यः श्रद्धया प्रतिपादयेत्” । इति । अत्र खल्वन्नोत्सर्गे श्राद्धपदं प्रयुतम् । तथा स्मृत्यन्तरम् ।
"संकृतं व्यञ्जनाढ्यान्नं पयोदधिघृतान्वितम् ।
श्रद्धया दीयते यस्मात् , तेन श्राद्धं निगद्यते” । इति । अपिच । नित्यश्राद्धादौ तावत् पिण्डनिषेधोऽवगम्यते । म च प्राप्तस्यैव भवति । प्राप्तिश्चातिदेशादेव। स खल्वङ्गानामेव न प्रधानस्य । कस्मात् ? । उपकारकन्वेनैवातिदेशस्य सप्तमाध्याये सिद्धान्तितत्वात् । तस्मात् पिण्डदानमङ्गमेव । अङ्गेषु फलश्रुतिरर्थवाद एव। केवलपिण्डदानविधिस्तु अङ्गभूतपिण्डदानात् कान्तरमेव । प्रकरणाधिकरणन्यायात्,-दूति श्राद्धविवेकः ।।
दूदन्त्विह वक्तव्यम् । “मासमनिहोत्रं जुहति"-दूति कुण्डपायिनामयने यथा अग्निहोत्रवत् जुहति, दूति वचनव्यक्त्या नैयमिकस्थाग्निहोत्रस्य धी अतिदिश्यन्ते ; प्रधानश्च होमो-योऽनये च प्रजापतये च,-ति, यथा वा “उद्भिदा यजेत" इत्येवमादौ अव्यक्तयजतो, मौमिकधर्मा व प्रधाना अपि यजतयः प्रदिश्यन्ते, तयोः रूपान्तराभावात् । तददत्रापि स्यात्। श्रानर्थक्यात् हि प्रधा
4 02
For Private and Personal Use Only