________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ३ का. ]
तेषामपि पत्न्यः प्राश्नन्तु । न चैवमिय्यते । तस्मान्न किञ्चिदेतत् ॥ ० ॥
॥ २८ ॥ ॥
भूना दूतो हविषेो जातवेदा इत्युल्मुकमद्भिरभ्युक्ष्य ॥ २९ ॥
गृह्यसूत्रम् ।
उल्भुकं दक्षिणार्द्धं कर्षूणां स्थितम् । चिष्टमन्यत् ॥ ० ॥ २८ ॥ ० ॥ द्वन्द्वं पाचाणि प्रक्षाल्य प्रत्यतिहारयेत् ॥ ३० ॥
पात्राणि चरुस्याल्यादीनि प्रक्षाल्य निर्निज्य, प्रत्यतिहारयेत् — केनचित् शिष्यादिना श्रनयेत् । असम्भवे स्वयमपि हरेत् । प्रतिशब्दकरणात् येन यन्त्रtतमामीत्, तेनैव तत् हारयेत् । अतिशब्दोऽसम्प्रतिक्षेपार्थः । तेन कालविलम्बमकुर्व्वन् हारयेत् — इत्यर्थः । “अभिहारयेत्” - इति केचित् पठन्ति । पात्राणि कथं प्रत्यतिहारयेत् ? । 'द्वन्द्वं' यथा भवति, तथा प्रत्यतिहारयेत् । दन्दशः प्रक्षाल्य इति वा वर्णनीयम् ॥०॥ ३० ॥०॥
1
अप्सु पिण्डान् सादयेत् ॥ ३१ ॥
उदके पिण्डान् निक्षिपेत् । पिण्डान्-इति बहुवचनं व्यक्त्यपेक्षं, द्वयोरेवावशिष्टत्वात् । पत्न्याः प्राशनस्यानावश्यकत्वात्तदभावपचाभिप्रायं वा वर्णनीयम् । अपरे पुनरेतदविद्वांसो भाषन्ते, – “पिण्डान्इति बहुवचनं षट् पिण्डश्राद्धविषयम् ” - दूति ॥ ० ॥ ३१ ॥ ० ॥
---
प्रणीते वाऽग्नौ ॥ ३२ ॥ ‘पिण्डान् सादयेत्”– इत्यनुवर्त्तते ॥ ० ॥ ३२ ॥ ० ॥
For Private and Personal Use Only
--