________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं.
[४ प्र.३ का.]
वति। उच्यते । सत्यं सम्भवति । न तु तेषामयमुपदेशः। केषां तर्हि ? । येषां ब्राह्मणभोजनात् परतः पिण्डदानं, तेषाम्-इति ब्रूमः । कस्मात् कारणात् ? ।
उच्छिष्टमनिधी कार्य पिण्डनिळपणं बुधैः”। इति तेनैव ब्राह्मणभोजनात् परतः पिण्डदानोपदेशात् । शङ्खवचनस्य तु पूर्वार्द्ध शङ्खमंहितायामेवं पश्यामः,
“पतिविदात्मनो गेहे भक्ष्यं वाऽभक्ष्यमेव वा”। इति। तदा व्यक्त एवायमों-यः खल्वस्माभिर्वर्णितः । कुतः? । अभक्ष्यमपि भुञ्जतः पिण्डमले निवेदनोपदेशात् । “शववचनं न श्राद्धेतरभोजनव्यावर्त्तकं, किन्तु यत्किञ्चित्-इति श्राद्धार्थत्वेन विशेषणीयम् । अन्यथा श्राद्धप्रतिषिद्धद्रव्याणं भक्ष्यत्वं न स्यात्। तेन श्राद्धार्थपक्वं यत्, तददत्त्वा न भोक्तव्यम्-इति तस्यार्थः” इति वचनतात्पर्य्यमप-लोचयतो रघुनन्दनस्य स्वच्छन्दकल्पनान्तु नाभिनन्दामहे । प्रमाणाभावात् । युतश्चाकिञ्चित्करत्वात् । भिन्नौ खल्वेतौ पदार्थों-यत् पिण्डमूले निवेदनं,यच्च श्राद्धावशिष्टम्, इति । साहसिकः खल्वसौ यो महर्षेरभिप्रायमनालोच्य स्वरुच्यैवान्यथा वर्णयन्नापत्रपते । अलमसदावेशेन । प्रकृतमनुमरामः । ___ कश्चित् पुनरन्यथेमं ग्रन्थं वर्णयाञ्चकार,-"यो वा तेषां प्रामणानाम्" इत्यादिम् । “यः तेषां ब्राह्मणानामुच्छिष्टं भजते, तस्योछिष्टभाजो यजमानज्येष्ठस्य पुत्रपौत्रादेः पत्नी मध्यमं पिण्डं प्राश्नीयात्” इति । तन्मते, ज्ञातिप्रभृतीनामपि तदुच्छिष्टभाक्त्वात्
For Private and Personal Use Only