________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[
प्र. ३ का.]
ग्रह्यसूत्रम् ।
इति। एिश्यमानेयं तन्नैव प्राशितं नैवाप्राशितञ्च भवति"-इति,
"उपवासा यदा नित्यः श्राद्धं नैमित्तिकं भवेत् ।
उपवास तदा कुर्यादाघ्राय पिटसेवितम्” । इति च श्रुतिस्मृती नियममवगमयतः । श्राचार्योऽपि “प्राश्नीयात्" -इति प्रशब्देनैतदेव दर्शयति । सेयमुच्छिष्टस्य प्रतिपत्तिः। श्रतो यत्रोच्छिष्टं न शिष्यते, तत्र नैष नियमः। प्रतिपत्तेः प्रतिपाद्याप्रयोजकत्वात्। यत् पुनर्यमवचनम्
"भक्ष्यं भोज्यं तथा पेयं यत्किञ्चित् पच्यते ग्टहे ।
न भोक्रव्यं पितृणान्तदनिवेद्य कथञ्चन" । इति। यच्च शववचनम्
“यत्किञ्चित् पच्यते गेहे भक्ष्यं भोज्यमथापि वा।
अनिवेद्य न भुञ्जीत पिण्डमूले कथञ्चन" । इति। तत् श्राद्धार्थपाकादन्यदपि यत्किञ्चिद् भक्षणार्थं ग्टहे पच्यते, तदपि पितॄणां निवेद्यैव भोकव्यम्-दूत्युपदिशति । न पुनः श्राद्धशेषातिरिक्रस्य भोजनं निषेधयति। कथं ज्ञायते ?। अनयोरेव श्राद्धशेषष्यतिरिकस्यापि पिढणं निवेद्य भोजनोपदेशात् । यत्किञ्चित्इति ग्रह-इति च करणाश्चैवमवगच्छामः। अतएव पिण्डमूलेपिण्डान्तिके निवेदनमुपदिश्यते, न तु तेनैव पिण्डदामं ब्राह्मणभोजनं बा।
आह । कुतः पुनरियमवधारणा;-पिण्डमूले निवेदनं न ब्राह्मणभोजनार्थम् इति । ननु, येषां पिण्डदानात् परतो ब्राह्मणभोजनं तेषां ब्राह्मणभोजनार्थमपि पिण्डमले निवेदनं सम्भ
For Private and Personal Use Only