________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५९
गोभिलीयं
[४ प्र. ३ का.]
जुरक्षरार्थः । मा तु भोजनकाले प्राश्नीयात् न पुमरेतस्मिन्नेवक्रमे, इति द्रष्टव्यम् । मन्त्रञ्च पतिः पठति । कस्मात् ? । 'यथेह पुरुषः स्यात्'-दूति मन्त्रलिङ्गात् ॥०॥ २७ ॥०॥
यो वा तेषां ब्राह्मणानामुच्छिष्टभाक् स्यात्॥२८॥
उच्छिष्टशब्दोऽत्र भुक्तावशिष्टपाकवचनो न तु भोजनपात्रावशिष्टवचनः । यः तेषां ब्राह्मणानां उच्छिष्टभाक्-उच्छिष्टं भजते, इत्युच्छिष्टभाक्-उच्छिष्टभजनाईः, स्यात् , स 'प्राश्नीयात्-दूत्यनुषज्यते । किं प्राश्नीयात् ? । तेषामुच्छिष्टम् । कुतः ? । उपस्थितत्वात् । वाशब्दः समुच्चये । अयमपि स्वभोजनकाल एव प्राश्नीयात्। कः पुन स्तेषामुच्छिष्टभाक् ?। यजमानादिः, इत्याह । कस्मात् ?। “शेषमिष्टेभ्योदत्त्वा स्वयञ्च भुञ्जीत" इति वचनात् । तथा स्मृत्यन्तरम्। इति । तथा देबलः ।
"निवृत्ते पिवमेधे तु दीपं प्रच्छाद्य पाणिना। श्राचम्य पाणीन् प्रक्षाल्य ज्ञातीन् शेषेण भोजयेत् । ततो ज्ञातिषु भुनेषु स्वान् मृत्यानपि भोजयेत् ।
पश्चात् खयञ्च पत्नी च श्राद्धशेषभुदाहरेत्” । इति । तैत्तिरीयशाखायामापस्तम्बसूत्रम् । “सर्वतः समवदाय ग्रासावरार्द्धमनीयाद् यथोकम्” इति। अत्र भूरिद्रव्य-कृत्स्नवाचि सर्वशब्दान्नियमोऽयमदृष्टार्थः, इत्याचक्षते । श्लोकमपि उदाहरन्ति ।
"श्राद्धं कृत्वा तु यः शेषं नानमनाति मन्दधीः । लोभान्मोहानयादाऽपि तस्य तनिष्पस्नं भवेत्” ।
For Private and Personal Use Only