________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र. ३ का.
श्रथाञ्जलिकता जपति नमो वः पितरः पितरा
नमा व इति ॥ २१ ॥ अथशब्दः पूर्वप्रकृतार्थः । पूर्वप्रकृतं कर्षवयं अभिसन्धाय, अञ्जलिकृतः सन् , नमोव इति मन्त्र जपति । अञ्जलिकृतः, इति व्याव्यासेन प्रयुझे। कृताञ्जलिरित्यर्थः । “अञ्जलिश्चात्र संहतः कर्त्तव्यो न व्याकोषः। कुतः ? । निगवे संहतस्योपयोगित्वात् व्याकोषस्य चन्द्रदर्शनाधुपयुक्तत्वात्” इति भट्टनारायणोपाध्यायाः॥०॥२१॥०॥
गृहानवेक्षते गृहान् नः पितरो दत्तेति ॥ २२॥ ग्टहान् पनीम् । एवमेके । ग्टहप्रार्थनयैव पत्नीप्रार्थनाया अपि चरितार्थत्वात् ग्टहशब्दस्य पत्न्यामरूढ़त्वाच निवेशनमेवार्थः । एवमपरे । तदत्र भवन्तो भूमिदेवाः प्रमाणम् ॥ ॥ २२ ॥॥
पिण्डानवेक्षते सदा वः पितरो देष्मेति ॥२३॥ ऋज्वयं सूत्रम् ॥०॥ २३ ॥०॥
सव्येनैव पाणिना सूचतन्तुं गृहीत्वाऽवसलवि पवस्यां कधी पिण्डे निदध्यात् पितुर्नाम गृहीत्वाऽसावेतत्ते वासा ये चात्र त्वामनु याश्च त्वमनु तस्मै ते स्वधेति ॥ २४ ॥ सूत्रतन्तुम्,-प्रकरणसामर्थात् क्षौमदशाम्। व्याख्यातमन्यत् ॥०॥ २४ ॥०॥
For Private and Personal Use Only