________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ३ का.]
एह्य सूत्रम्।
६४५
न्तरमेव पिण्डदाने विधीयते, इत्यादरणीयम् । तेन, ये चात्र त्वा,इत्ययं मन्त्रोऽस्मिन् पक्षे निवर्त्तते। स्वधाशब्दस्य प्रदानार्थस्योपादानाच्च। अत्र च, अन्यतरस्यापि नाम्यज्ञायमाने सर्वेषामेव अनेन मन्त्रान्तरेण पिण्डदानं कर्त्तव्यम् , त्रितयसम्बन्धेनैव विधानात् । एवमेके। यस्य नाम ज्ञायते तस्य नामोचारणपूर्वकं पूर्वणैव मन्त्रेण पिण्डदानम्, यस्य च नाम न ज्ञायते, तस्यैवानेन मन्त्रान्तरेण । तदेतद् यथार्थमभिप्रेतम् । एवमपरे । तदत्र भवन्तो भूमिदेवाः प्रमाणम् ।
अत्र पृच्छामः । नामाज्ञाने तिलोदकादिदानं कथं कर्त्तव्यम् ? -इति । तुल्यहेतुत्वादनेनैव मन्त्रान्तरेण कर्त्तव्यम्-दूति केचित् । तदसङ्गतम् । कस्मात् ? । अतिक्रम्य विधानात् । तिलोदकादिकं खल्वतिक्रम्य पिण्डदान एवैतन्मन्त्रान्तरमाचार्येण विधीयते । कः पुनरत्राभिप्रायः ? । पिण्डदानमेवानेन मन्त्रान्तरेण कर्त्तव्यम् इति । तस्मात्,-पिण्डदानप्रयोगविधिरेवायम् । तस्मात्,-अतीतं तिलोदकादिकमनागतच्चाननादिकमनेन मन्त्रेण न देयमेव । अपर पाह। मन्त्रान्तराविधानादमन्त्रकमेव तेषां दानम् इति। तदप्युपेक्षणीयम्। कुतः ? । तेषामपि समन्त्रकदानोपदेशात्। पिण्डदानवत् तत्रापि समन्त्रकत्वस्थोचितत्वाच्च । श्राह। एवं भवता दावपि पनौ प्रतिक्षिप्ती, कतमस्तमुत्र पक्षः ?। उच्यते । अनेन मन्त्रान्तरेण तावन्न कर्त्तव्यमेव, नाप्यमन्त्रकम् । किन्तु, प्राचीनं तिलोदकादि पराचीनञ्चाअनादि यथासूत्रितेनैव मन्त्रेण देयम् । ननु, “नाम ग्टहीत्वा" -इति तत्र तत्र सूत्रणमस्ति, नाम्न्यज्ञायमाने कथं यथासूत्रितेन मन्त्रेण दानममीषां सम्भवति ?। उच्यते । नाम्नरज्ञायमाने नामस्थाने
For Private and Personal Use Only