________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६४
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र. ३ का०]
निर्व्वपेत् । शिष्टमन्यत् । सन्नीतात्, - दूति लिङ्गात् सन्नयनं तावदवगम्यते । सन्नयनं नाम एकीकरणम् । न ज्ञायते : - केन सह कस्य सन्नयनम् - इति । तद्वक्तव्यम् । उच्यते । सर्व्वस्मात् हविषः अल्पमल्पमुद्धृत्य तेषां चरुणा सह सन्नयनं कर्त्तव्यम् । तस्माच्च सन्नीतादवदाय पिएडा दातव्याः, -इति । कुत एतत् ? ।
" यावदर्थमुपादाय हविषेोऽर्भकमकम् । चरुणा सह सन्नीय पिण्डान् दातुमुपक्रमेत्” । दूति कर्म्मप्रदीपवचनात् ॥०॥ ८ ॥० ॥
अप उपस्पृश्यैवमेवेतरयेाः ॥ ९ ॥
व्याख्यातोऽक्षरार्थः । अत्र च मध्यमायां कवीं पितामहस्य पिण्डदानं, दक्षिणस्यां प्रपितामहस्य, — दूति बेोद्धव्यम् । तथा चोकम् । “पितुरुत्तरकर्व्वन्ते मध्यमे मध्यमस्य तु ।
दक्षिणे तत्पितुश्चैव पिण्डान् पर्व्वणि निर्व्वपेत्” ।
इति ॥ ० ॥ ८ ॥ ० ॥
स खल्वयं यजमानः, पितृपितामहप्रपितामहानाम्
यदि नामानि न विद्यात् ;- स्वधा पितृभ्यः पृथिवीषय इति प्रथमं पिण्डं निदध्यात्, स्वधा पितृभ्योऽन्तरीक्षसद्भ्य इति द्वितीयः स्वधा पितृभ्यो दिविषय इति तृतीयम् ॥ १० ॥
ऋजुरक्षरार्थः । तदनेन सूत्रेण, पित्रादिनामाज्ञाननिमित्तं मन्त्रा
For Private and Personal Use Only