________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ३ का.]
गृह्यसूत्रम् ।
. अथादपात्रान् कर्पूषु निदध्यात् ॥ ५॥ अथशब्दः पूर्वप्रकृतार्थः । उदपात्रान्, इति पुंस्त्वं छान्दसम् । उदकपात्राणि,-इति केचित् पठन्ति । कर्तेषु, इति, “अथाग्निषोमीयेन चरन्त्युत्तरवेद्याम्” इतिवत् मामीप्ये सप्तमी । अयमर्थः । पूर्वपूरितान्युदकपात्राणि कर्तृणं सन्निधावानुपूर्येण स्थापयेत् ॥०॥५॥०॥
सत्येनैव पाणिनोदपात्रं गृहीत्वाऽवसलवि पूर्वस्यां कधी दर्भेषु निनयेत् पितुर्नाम गृहीत्वाऽसाववनेनिच ये चात्र त्वामनु याश्च त्वमनु तस्मै ते स्वधेति ॥६॥ अवसलविशब्देन पिलतीर्थमुच्यते,-दूत्यवाचाम । तेन, पिटतीर्थन पूर्वस्यां कवी दर्भेषु उदकं निनयेत् । कृतभाष्यमन्यत् ॥०॥६॥०॥
अप उपस्पृश्यैवमेवेतरयाः ॥ ७॥ अपरकषूदये, इति वाक्यशेषः । व्याख्यातमन्यत् ॥०॥ ७ ॥०॥
सव्येनैव पाणिना दव्वी गृहीत्वा सन्नीतात्ततीयमात्रमवदायावसलविं पूर्वस्यां कधीं दर्भेषु निदध्यात् पितुनाम गृहीत्वाऽसावेषते पिण्डो ये चाच त्वामनु याश्च त्वमनु तस्मै ते स्वधेति॥
दझे पूर्वमेव व्याख्याता। तया दया, सन्नीतात्-एकीकृतात् चरुहविषः, हतीयमात्र हतीयांशमवदाय यथोकेन प्रकारेण निदध्यात्
1M2
For Private and Personal Use Only