________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४६
गोभिलीयं
[४ प्र.३ का.)
पृथिवीषदादयः शब्दाः प्रयोकव्याः । कथं ज्ञायते ?। ग्ण यथाज्ञायते । पित् पितामहप्रपितामहानां नामाज्ञाने विहितेषु मन्त्रान्तरेषु:-पृथिवीषदिति, अन्तरीक्षमदिति, दिविषदिति च विशेषश्रवणात् तेषामेव पित्राद्यभिधानस्थानपातित्वमवगच्छामः । तेन, पृथिवीषदेतत्ते तिलोदक, अन्तरीक्षसदेतत्ते तिलोदकं, दिविषदेतत्ने तिलोदकम्-दूति प्रयोगे विशेषः । ये चात्र त्वा मन यांश्च त्वमनु तस्मै ते स्वधा, दूति तु मत्रैव प्रयोज्यम् । पिण्डदाने तु खधापदवन्मन्त्रान्तरविधानात् पूर्वस्य मन्त्रस्य निवृत्तिरेव स्यादित्यवोचाम । तथाच स्मरणम् ।
“पृथिवीषत् पिता वाच्यस्तत्यिता चान्तरीक्षमत् ।
अभिधानापरिज्ञाने दिविषत् प्रपितामहः”। इति । तदिदं स्मरणमाचार्य्यसंवादितमर्थं वदतीत्यादरणीयम् । रघुनन्दनस्तु च्छन्दोगोऽप्येतदजानानः,-"नामान्यविद्वांस्तत् पितामहप्रपितामहेति" इति पिण्डपिढयज्ञीयमाश्वलायनकल्पसूत्रमाकुलीकृत्य,-"नामान्यविद्यास्तत्पिपितामहप्रपितामहाः” इति परिकल्प्य लिखित्वा बहुविरुद्धं वर्णयाञ्चकार ॥०॥ १०॥०॥
निधाय जपत्यत्र पितरो मादयध्वं यथाभागमारषायध्वमिति ॥ ११॥
पिण्डान् निधाय, अत्र पितरः-दुतिमन्त्र जपति। अथ, निधायइत्येतदवाच्यमिति चेत् । न । प्रतिनिधानं जपप्रतिषेधार्थत्वात् । कथं नाम ? । सान् पिण्डान् निधाय जपति न प्रतिपिण्डनिधा
For Private and Personal Use Only