________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[प्र. १ का.
एह्यसूत्रम् ।
दर्भानामनेषु दत्त्वा। तथा चाम्मदीये श्राद्धकल्प-सूत्रम्। "प्रासनेषु दीनास्तीर्य'-इति। श्रादिशब्दोऽत्रलुप्तवत् द्रष्टव्यः । तेन दीदीनयपर्यन्तान् प्रदाय-अय पर्यन्तं कर्म कृत्वा, इत्येतत् । तथाच कर्मप्रदीपः।
"श्रासनाद्यर्थपर्यन्तं वशिष्ठेन यथोदितम् ।
कृत्वा कमीथ पात्रेषु उक्तं दद्यात्तिलोदकम्" । इति ॥०॥ ३४ ॥०॥
उदकपूर्वन्तिलादकं ददाति पितुनीम गृहीत्वाऽ सावेतत्ते तिलोदकं येचाच त्वा मनु यांश्च त्व मनु तस्मै ते स्वधेति ॥ ३५॥ उदकं पूर्व यस्य तदुदकपूर्व तिलोदकं तिलमित्रमुदकं ददाति । एतदुक्तं भवति । प्रथमं केवलमुदकं दत्त्वा ततस्तिलमिश्रमुदक ददाति इति । केन मन्त्रेण ददाति ? । असावेतत्ते तिलोदकमित्यनेन मन्त्रेण । किं कृत्वा ?। असो-इत्येतस्मिन् स्थाने सम्बोधनविभक्त्या पितुर्नाम ग्टहीत्वा उच्चार्य । "नामग्रहनवचनमेकदेशोत्कीर्तनाभिप्रायम् । तेन गोत्रादेरप्यलेखः" इति बदन्ति । तथा चास्मदीयं स्नानसूत्रपरिशिष्टम् ।
"गोत्रं स्वरान्तं सर्वत्र गोत्रस्याक्षय्यकर्मणि । गोवस्तु तर्पणे प्रोकः कर्ता एवं न मुह्यति । सर्वत्रैव पितः प्रोक्तं पिता तर्पणकर्मणि । पितुरक्षय्यकाले तु की एवं न मुह्यति ।।
For Private and Personal Use Only