________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३२
गोभिलोयं
[
प्र. ९ का.]
शर्मन्नादिके कार्ये शर्मा तर्पणकर्मणि ।
शर्मणोऽक्षय्यकाले तु कर्ता एवं न मुह्यति"। इति। इदश्च तिलोदकदानं पात्रेवेव कर्त्तव्यं न ब्राह्मण हस्तेषु । कस्मात् । “पात्रेषु उतं दद्यात्तिलोदकम्" इति वचनात् । तिलोदकदानपात्रञ्च
"अासुरेण तु पात्रेण यस्तु दद्यात्तिलोदकम् । पितरस्तस्य नामन्ति दशवर्षाणि पञ्च च । कुलालचक्रनिष्यन्न मासुरं मृण्मयं स्मृतम् ।
तदेव हस्तघटितं स्याल्यादि दैविकं स्मृतम्" । इत्युक्तलक्षणं बोद्धव्यम् । आह । किमानन्तर्यात् तिलोदकमेव मन्त्रेण ददाति, उत केवलोदकमपि ?-इति । तिलोदकमेव,इति ब्रूमः । कस्मात् ? । आनन्त-देव । तथाच कर्मप्रदोपः ।
"वृष्णीं पृथगपो दद्या मन्त्रेण तु तिलोदकम् । इति ॥०॥ ३५ ॥०॥
अप उपस्पृश्यैवमेवेतरयाः ॥ ३६ ॥
अप उदक, उपस्पृग्य स्पृष्टा, एवमेव वृष्णीमुदकदानपूर्वकं मन्त्रण तिलोदकदानं, इतरयोः पितामहप्रपितामहयाः, नाम ग्टहीत्वा कर्त्तव्यम् । तिलोदकदानाच्च परतो गन्धोदकमपि मन्त्रेण पात्रेम्वेव दद्यात् । तथा चोक्तम् ।
"वृष्णीं पृथगपो दद्यान्मन्त्रेण तु तिलोदकम् । गन्धोदकञ्च दातव्यं मत्रिकर्षक्रमेण तु” ।
For Private and Personal Use Only