________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६३०
गे। भिलीयं
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. २ का. ]
इदमिदानीं सन्दिह्यते । किमत्र वैश्वदेवार्थं ब्राह्मणमुपवेश
2
।
येत्, उत यावदुक्तत्वान्न ? – इति । तच श्रविधानादिह वैश्वदेवस्यैवाभावः - इति केचित् । तदसङ्गतम् । कस्मात् ? । वैश्वदेवपूर्व्वस्यैव श्राद्धस्य शास्त्रान्तरे विधानात् । तथाच मनुः । “तेषामारचभूतन्तु देवं पूर्वं नियोजयेत् । रक्षांसि हि विलुम्पन्ति श्राद्धमारचवर्जितम्” । इति । “खातान् शुचीनाचान्तान् प्राङ्मुखानुपवेश्य देवे युग्मानयुग्मान् यथाशक्ति पित्र्ये" - इति, "देवपूवं श्राद्धं कुर्वीत" - इति चास्मदीये श्राद्धकल्पे । तस्मात् — वैश्वदेवार्थं युग्मान् ब्राह्मणान् प्राङ्मुखानुपवेश्य ततः पिब्राह्मणानुपवेशयेत् इति सिद्धान्तः । तथाच कर्मप्रदीपः ।
“स्वस्तरे सर्व्वमासाद्य यथावदुपयुज्यते । देवपूर्व्वन्ततः श्राद्धमत्वरः शुचिरारभेत्” । इति | किमर्थं तर्हि वैस्य देवस्याचणम् ? । उच्यते । प्रधानस्य पितृयज्ञस्य स्वत्रणे तदङ्गं वैश्वदेवमनुचितमपि प्राप्यत एवेति मन्यमानः खल्वाचाय्यैौ नात्र वैश्वदेवं सूचयाञ्चकारेति निष्यते । श्रथवा । अनिन्द्यानित्यनेन ब्राह्मणपरीक्षां सूचयन् देवञ्चाचास्सृत्रयन् देवे ब्राह्मणपरीचायामसम्मतिं दर्शयति । तथाच मनुः । “ब्राह्मणं न परोक्षेत दैवे कर्मणि धर्म्मवित् । पित्र्ये तु कर्माणि प्राप्ते परीक्षेत प्रयत्नतः” ।
इति ॥ ० ॥ ३३ ॥ ० ॥
दीन् प्रदाय ॥ ३४ ॥
For Private and Personal Use Only
"