________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. २ का.]
रह्यसूत्रम् ।
इति । तेनैवाञ्जनेन तिस्रः त्रिसंख्याकाः, दर्भपिञ्जलीः पूर्वाकलक्षणाः, अञ्जयति प्रक्षयति पत्नी। किं यथेच्छम् ? । न । कथन्तर्हि ?। मव्यन्तराः । विशेषेणान्तरमवकाशोव्यन्तरं तत् सहिताः सव्यन्तराः। श्वावि छलाकावदिति यावत् । अथवा । सव्यशब्दो नानावचनः । तेन, नानाऽन्तराः, इति पूर्वात एवार्थः ॥०॥ ३० ॥०॥
तैलञ्चोपकल्पयेत् ॥ ३१ ॥ चशब्दात् स्वस्तर एव । तदस्थातिक्रान्तेन स्वस्तरेण सम्बन्धी बोद्धव्यः ॥०॥ ३१ ॥०॥
क्षौमदशाञ्च ॥ ३२॥ अतमीस्त्रदशाञ्च स्वस्तर एवोपकल्पयेत् ॥०॥ ३२ ॥०॥ शुचौ देशे ब्राह्मणाननिन्द्यानयुग्मानुदङ्मुखानुपवेश्य
शची पवित्रे, देशे-गोमयेनोपलेपिते । कथं ज्ञायते ? ।
“शुचिं देशं विविक्तञ्च गोमयेनोपलेपयेत्” । इति मनु स्मरणात् । ब्राह्मणान् ब्राह्मणग्रहणात् क्षत्रियादिप्रतिघेधः। अनिन्द्यान,-निन्द्याः निन्दाः , ते न भवन्तीत्यनिन्याः, तान् अनिन्द्यान् । अयुग्मान् विषम संख्याकान् ,-बहुवचनात् त्रिप्रभृतीन् , उदङ्मुखान् उपवेश्य । उपवेशनञ्चामीषां कर्पूण दक्षिणतः स्यात् । एवं खल्वग्रता ब्राह्मणानां कपिण्डा भवन्ति ।
For Private and Personal Use Only