________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[
प्र २ का.]
एचसूत्रम्।
__षीञ्चोपदध्यात् ॥२६॥ वृषो नाम काष्ठमयो दादशाङ्गुलपरिमित श्रासनविशेषः, उपवेशश्वाख्यायते । ताञ्च उपदध्यात् स्थापयेत्। चशब्दः खस्तरेण सम्बन्धकरणार्थः । तेन, वस्तरोपरि वृष्या उपधानम् , इति केचित्। चशब्दात् उपशब्दाच्च स्वस्तरस्थोप समोपे कृषीं दध्यात् । अतएव परतः स्वस्तरोपरि द्रव्याणामासादनं मुत्रयिष्यते । अस्या अपि स्व स्तरोपर्येवासादने दूदमपि तत्रैवासूत्रयिष्यत् , अत्रैव वा स्पष्टार्थ 'तत्र' ग्रहणमकरिष्यदाचार्यः । तदकरणादवगच्छामः,नास्याः स्वस्तरोपासादनम्, इति । एवमपरे । तदत्र भवन्तो भूमिदेवाः प्रमाणम्। उपदयादिति वचनादुपधानमेवास्थाः कर्त्तव्यमदृष्टार्थ, न पनरुपवेशनार्थं तदामादन मिति नारायणेपाध्यायप्रभृतयः ॥ ॥ २६ ॥०॥
तचास्मा अाहरन्त्ये कैकशः सव्यं बाहुमनु ॥ २७ ॥
सत्र, इत्यतिक्रान्तस्य स्वस्तरस्य परामर्शा न दृष्याः । कथं ज्ञायते ? । "खस्तरे सर्वमासाद्य” इति परिशिष्टकारवचनात् । तत्र खस्तरे वक्ष्यमाणानि द्रव्याण्येकैकश: श्राहरन्ति । कथमाहरन्ति ? । अस्मै सव्यं बाहुमनु । अस्मै, इत्यत्र “षष्ठ्यर्थे चतुर्थी वक्रव्या"-इति वचनात् षष्ठ्यर्थ चतुर्थो । अस्य यजमानस्य सव्यं बाहुं अनु लक्ष्मीकृत्य,-अप्रादक्षिण्येनेत्यर्थः । अथवा । अस्मै,इति तादी चतुर्थो । अस्मै यजमानाय, अन्ये शिव्यादय पाह
+K2
For Private and Personal Use Only