________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र.९ का.]
। “पुरतो याऽऽत्मनः कः सा पूर्वा परिकोयते ।
मध्यमा दक्षिणेनास्यास्तद्दक्षिणत उत्तमा"। इति । तथाच, दमाः का दक्षिणसंस्था भवन्ति । खननञ्चामूषां शगुना करणीयम् । स च,
“शङ्कुश्च खादिरः प्रोको रजतेन विभूषितः ।
शङ्ख श्चैवोपवेशश्च द्वादशाङ्गुल व्यते" । इति कर्म प्रदीपोतलक्षण: ॥०॥ १६ ॥०॥ कीदृशीः कः खानयेत् ? । उच्यते,
प्रादेशायामाश्चतुरङ्गुलपृथ्वीस्तथाऽवखाताः ॥ १७॥ प्रादेशायामाः प्रादेशदीधीः । पृथुशब्दो धर्मवचनः । चतुरङ्गुलं पृथु यामां, ताः चतुरङ्गुलपृथ्वीः। पृथु पृथुत्वं परिणाहः,इत्येतत् । तथा चतुरङ्गुल अवखातं यामां, ताः तथाऽवखाताः । विशेषमाह कर्म प्रदीपः ।
“वाय्वमिदिङ्मुखान्तास्ताः कार्याः माझाङ्गुलान्तराः ।
तीक्षणाग्रा यवमध्याश्च मध्ये नाववोतकिरेत्" । इति ॥ ॥ १७॥॥ पूर्वस्याः कधीः पुरस्तालक्षणं कृत्वाऽग्निं प्रणयन्ति
॥१८॥ सुजुरक्षरार्थः । अत्रापि, लक्षणग्रहणस्य पूर्वोतमेव प्रयोजन बोद्धव्यम् । बहुवचनात् कर्तुरनियमः ॥०॥ १८ ॥०॥ कश्चिदत्र विशेषमाइ,
For Private and Personal Use Only