________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8 प्र. २का. ]
तस्मिन्नेवानौ श्रपयत्ये । दनचरुश्च
पृथङ मेक्षणाभ्यां प्रसव्यमुदायुवन् ॥ १४ ॥
गृह्यसूत्रम् ।
६२३
माँसचरुश्च
प्रसव्यं श्रप्रदक्षिणम् । कृतभाष्यमन्यत् । अत्रापि, मांसाभावे पायसः स्यात् । तदिदमुक्तमस्माभिरधस्तादेव, “श्रोदनव्यञ्जनार्थन्तु " - इत्यादिना ॥ ० ॥ १४ ॥ ० ॥
--
शृतावभिघार्य दक्षिणोदास्य न प्रत्यभिघारयेत् ॥ १५ ॥
दक्षिणा दक्षिणस्याम् । गतमन्यत् ॥ ० ॥ १५ ॥ ०॥ दक्षिणा परिवृतस्य तिस्रः कर्पू: खानयेत् पूर्वोपक्रमाः ॥ १६ ॥
For Private and Personal Use Only
परिवृतस्य स्थानस्य दक्षिणा दक्षिणांगे, तिस्र: त्रिसंख्याका कर्षूः केनचित् खानयेत्। श्रन्यस्य पुनरसम्भवे स्वयमपि खनेत् । कर्षूनाम अक्टो गर्त्त इत्यनर्थान्तरम् । कथम्भूता: ? । पूर्बीपक्रमाः । पूर्व्वस्यां दिश्युपक्रमा यासां ताः, तथाविधाः, -- इत्यर्थः । तथाच, पूर्व्वस्यां दिग्युपक्रम्य पश्चिमायां दिशि खननं समापनीयम् । पित्र्यत्वात् प्रसव्यखननमित्यभिप्रायः । श्रथवा । उपक्रम्यते, - इत्युपक्रमः । पूर्व्वकर्षुरुपक्रमेा यासां कर्षूणां ताः तथोक्ताः । तथाभूताः खानयेत् । का पुनः पूर्व्वी ? या खल्वात्मनः पुरतः क्रियते । एतदुक्तं भवति । प्रथमतः पूर्व्वं कर्षू खानयेत्, ततो मध्यम, तत उत्तमाम्, - इति । तथा चोत्रम् ।
---