________________
Shri Mahavir Jain Aradhana Kendra
६२२
www.kobatirth.org
गोभिलीयं
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. २ का . ]
सकृदेव सुफलीकृतान् कुव्वत ॥ ११ ॥
सहदेवावारमेव, सुफलीकृतान् - सुशब्दः शोभनवचन:, शोभनं यथा भवति तथा फलीकृतान् निष्पन्नोकृतान् तण्डुलान् कुर्व्वीत पूर्व्वमेव खल्बवघातेन तण्डुला निष्पन्नाः । इदानीन्तु शोभनं निष्पन्त्रीकरणमुपदिश्यते । तेन प्रच्छट्टनमिदानीं कुर्वीत ॥ ० ॥ ११ ॥ ० ॥
अथामुष्माच्च सक्नो मासपेशीमवकृत्य नवाया स्वनायामणुशच्छेदयेत् ॥ १२ ॥
अथ शब्द श्रानन्तर्य्यीर्थः । श्रथ तण्डुल प्रक्षालनानन्तरम् । प्रचालनञ्च सकृदेव स्यात् दविषः पित्र्यत्वात् । व्यवहितस्वापि बुड्या सन्निकृष्य श्रमुनादित्यनेन परामर्शः । श्रथ शब्दः पूर्व्वप्रकृताथवा । श्रमुभात् पूर्व्वप्रकृतात् मांसाष्टकायां निहितात् सक्नः, चशब्दात् क्लोम्नश्च, मांसपेशीं, - मांसपेशी प्रसिद्धा, तां श्रवत्य अवच्छिद्य, नवायां सुनायां सुना नाम काष्ठमयः पाचविशेषः, तस्यां सुनायां अणुशः सूक्ष्मं सूक्ष्मं कृत्वा छेदयेत् ॥ ० ॥ १२ ॥ ० ॥ कथं छेदयेत् ? । उच्यते,—
यथा मासाभिघाराः पिण्डा भविष्यन्तीति ॥ १३ ॥
यथा येन प्रकारेण मांसाभिघारा: मांसव्यञ्जनाः पिण्डा भवि - व्यन्ति इति तथा छेदयेत् ॥ ० ॥ १३ ॥ ० ॥
For Private and Personal Use Only