________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२०
गाभिनीयं
[प्र.१ का.]
घयोः पाण्याः, ताविमौ सव्योत्तरी, ताभ्यां मव्योत्तराभ्यां पाणिभ्यां मुषलेनावहन्ति । उतार्थमन्यत् । म कृत संग्टहीतमिति वचनात अनुनिळपयोरत्र निवृत्तिमिच्छन्ति । ब्रीहिग्रहणं हविरन्तर प्रतिषेधार्थम्। यद्यप्यत्र सकृत्संग्टहीतस्य मुष्टिमात्रस्य ग्रहणम् अवगम्यते, तथापि तथा ग्रहीयात् यथा होमस्य पिण्डानाञ्चाभिनिवृत्ति: स्यात् । कुतः । श्रेदमागहणस्य । श्रतएवाचार्यपुत्रेण,___चतुर्मुष्टिवरुः कार्यश्चतुर्णीमुत्तरोऽपि वा”। इति सामान्यत एवोपदिष्टम् । तदिदं हविनिर्वपनादिकं प्राची. नावीतो दक्षिणपूर्वाष्टमदिमुखः कुर्यात्। कुतः ?। पिश्यत्वात्। कस्मात् पुनः कारणात् सत्यपि देवतानां माधारण्ये पियत्वमेव हविषः कथ्यते ?। प्राधान्यादित्याह। पितॄणां खल्वत्र कर्मणि प्राधान्यमवगम्यते । तस्मात् पित्र्यमिदं भवितुमर्हति। प्रधानवशाद्धि नियमो वर्णयितुमुचितः। कुतः पुनरत्र पितृणामेव प्राधान्यमवगम्यते न देवतानामपि ?। तथा मुखैः कृत्यमिति वचनात्-इति ब्रूमः। अपिच । इविषः महदहणात, सव्योत्तराभ्यां पाणिभ्यामवहननात्, सकृत् फलीकरणात् , यथा मांसाभिघाराः पिण्डा भवन्ति तथा मांसच्छेदनात् , प्रसव्यमुदायवनात् , दक्षिणस्यामुद्वासनात्, इत्येवमादिभिरुपदेशशतैः पितृणामेवात्र प्राधान्यमवगम्यते। मनुरपि स्मरति।
"देवकार्यात् दिजातोनां पिनकायं विशिष्यते । दैवं हि पित्तका- पूर्वमाप्यायनं स्मृतम्" ।
For Private and Personal Use Only