________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[प्र. २ का.
ग्रह्यसूत्रम् ।
३१९
"लक्षणावृदेषा सर्वत्र" इति सर्वत्रग्रहणेन व्यायवगमात् । दूह च, लक्षणं कृत्वा,-दति वचनस्यैवमर्थत्वात् । अन्यथा खल्वग्निप्रणयने लक्षणं प्राप्तमेवेति पुनर्वचनमनर्थकमेव स्यात् । तस्मात् , लक्षणे रेखानां प्राग्गतत्वानुरोधात् तत्र प्रामुखकरणवधारणाच्च, अत्रापि प्राङ्मुख एव कुर्यादित्यवगच्छामः। एवञ्च, यथा अन्यत्रलक्षणमुपवीतिना क्रियते, तथा अत्राप्यस्मिन् कर्मण्यपवीतिनैव भवितव्यम् । उपरिष्टात् खल्वाचार्यः,-"प्रत उद्धं प्राचीनावीतिना" इति कुर्वन् , अधस्तात् किञ्चित् कर्म प्राचीनावोतिना, किञ्चिदुपवीतिना, किञ्चिच्चोभयथैव कर्तव्यमित्यपदिशति । एतच्चापरिष्टादेव व्याख्यास्यामः । अतएव कर्मप्रदीपः ।
"दक्षिणं पातयेज्जानु देवान् परिचरन् सदा ।
पातयेदितरज्जानु पिढन परिचरन्नपि" । इति स्मरति । तदिदं वचनम् ,-पिट कर्मान्तःपात्यपि देवपरिचरणं दक्षिणजानुपातेन एवं दैवकर्मान्तर्गतमपि पिटपरिचरणं इतरजानुपातेन करणोयम्, इत्याह । कथं ज्ञायते?। सदा शब्दस्यैवमर्थत्वात् । एवञ्च, उपवीतित्वादावपि तथैव वर्णयितुमुचितम् । कस्मात् ? । कारणस्याविशेषात्। अग्निं किल देवमाचक्षते नैरुनाः ॥०॥ ८॥०॥
पश्चादग्नेरुलूखलं दृश्हयित्वा सकृत् संगृहीतं वोहि मुष्टिमवहन्ति सव्योत्तराभ्यां पाणिभ्याम् ॥६॥ उत्तरशब्द उपरितनवचनः। सव्यः पाणिरुत्तरो दक्षिणश्चाधरो
12
For Private and Personal Use Only