________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[प्र. २ का.]
चतुरवरायान् प्रक्रमान् ॥ ६ ॥ चत्वारोऽवरायः निकृष्टा येषां, तान् चतुरवरायान् प्रक्रमान् परिवारयन्ति । तदस्थातिकान्ततरेण सूत्रेण संबन्धो बोद्धव्यः । प्रक्रमः श्रवणाकर्मण्येव व्याख्यातः । एतदुक्तं भवति । सर्वनिकृष्टोऽयं पक्षः;-यचतुर्ण प्रक्रमाणां परिवारणम्, इति । दूच्छया पुनरधिकमपि परिवारयन्ति ॥०॥ ६ ॥०॥ तस्य खलु परिवृतस्य,
पश्चादुपसच्चारः ॥ ७॥ पश्चात् पश्चिमदिशि उपसञ्चारः कर्त्तव्यः। उपमञ्चरत्यनेनेत्यपसञ्चारो द्वारमुच्यते ॥ ॥ ७ ॥०॥
उत्तरार्दै परितस्य लक्षणं कृत्वाऽग्निं प्रणयन्ति
परिवृतस्य स्थानस्योत्तरार्द्ध पूर्वोक्तं लक्षणमंज्ञकं कर्म कृत्वा अग्निं प्रणयन्ति । बहुवचनात् कर्तुरनियमः । एवञ्चात्र यावदुक्कवादृह्मासनादीनां निवृत्तिरवगम्यते । तथाच ग्टह्यासंग्रहः ।
"एकाग्न पित्यजे च ब्रह्माणं नोपकल्पयेत्।
सायं प्रातच होमेषु तथैव बलिकर्मसु"। इति । इदमिदानों मन्दिह्यते। किमेतदग्निप्रणयनं उपवीतिना प्रामखेन करणीयम्, उत प्राचीनावोतिना दक्षिणपूर्वाष्टमदिङ्मखेन ?- इति । उपवीतिना प्रामुखेन, इति ब्रूमः । कस्मात् ।
For Private and Personal Use Only