________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[प्र.२ का.
वसूचम्।
अपरश्वा वा ॥२॥
अपरश्वः,-एकान्तरिते अहनि वा अन्वष्टक्यम् कर्त्तव्यम्। तिथिवृद्धि पक्षेऽयं विकल्पः, दूति नवम्यामन्वष्टक्यवादिनः । दिनवादिनस्वाहः,-अशक्कावयं विकल्पः, इति ॥०॥ २ ॥०॥ अथेदानीम् अन्वष्टक्यं कर्म विवतुराह,
__ दक्षिणपूर्वेऽष्टमदेशे परिवारयन्ति ॥३॥ बेश्मनो दक्षिणपूर्वं अष्टमदेशे उभयदिगष्टमभागे,-आग्नेय्यामित्येतत् । परिवारयन्ति, सर्वतोभावेनाच्छादयन्ति कटादिभिः किञ्चित् स्थानम् । बहुवचनादनियतः का ॥०॥ ३ ॥ ॥ कथं परिवारयन्ति। उच्यते,
तथाऽऽयतम् ॥ ४॥ तथेति दक्षिणपूर्वाष्टमदेशोभण्यते । दक्षिण पाष्टमदेशायतं यथा भवति, तथा परिवारयन्ति । अायतमायामोदर्थमित्यनथान्तरम् ॥ ॥ ४ ॥ ॥
तथामुखैः कृत्यम् ॥५॥ यवक्ष्यमाणं कर्म, तत् तथा मुखैः दक्षिणपूर्वाष्टमदेशाभिमुखैः कृत्यं करणीयम्। लाघवार्थमवैतत् सत्रितम् । अन्यत्र सूचणे हि दक्षिणपूर्वाष्टमदेशमुखैरिति सूचयितव्यं भवति ॥०॥ ५ ॥०॥ कियत्परिमितं स्थानं परिवारयन्ति ।। उच्यते,
41
For Private and Personal Use Only