________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीय-गृह्यसूत्रे
चतुर्थप्रपाठके द्वितीया काण्डिका ।
श्वस्ततोऽन्वष्टक्यम् ॥ १॥ ततस्तस्मादनन्तरोपदिष्टान्मांमाष्टकाकर्मणः, श्वः अनागतेऽहिनवम्यामित्यर्थः । एवमेके । अष्टकाकर्मदिनात् परदिन एव, न नवम्या नियमः । एवमपरे। अन्वष्टक्यं कर्त्तव्यमिति वाक्यशेषः । अटकायाः पश्चाद्भवतीत्यन्वष्टका, तत्र साधु अन्वष्टक्यमिति कर्मणे नामधेयम् । कश्चित् सर्वत्रैवान्वष्टक्यं मन्यमानः सूत्रे ततः शब्दस्य वीमां कृत्वा व्याचटे, ततस्ततः अन्वष्ट क्यम्, इति । तदसङ्गतम् । मामाष्टकाकर्मण एवानन्तरत्वात्। वोमाया अश्रुतत्वाच। सर्वत्रान्वष्टक्यपक्षस्थाचार्य्यमम्मतत्वाभावाच्च । तदिदमधस्तादेवास्माभिरभिहितं,-"तथा गौतमवार्कखण्डी"-इत्यत्र । अथैवं ततः, इत्यनर्थकम्, अधिकारादेव मांसाष्टकाकर्मणे लाभात् । नियमार्थं तर्हि । किं नियम्यते ?। तस्मान्मांसाष्टकाकर्मण एव नान्यस्मादित्येतन्नियम्यते । किमर्थं पुनर्नियम्यते ।। अधिकाशङ्का-निरामार्थमित्याह । कापुनरत्राधिकाशङ्का? । उच्यते। अन्वष्टक्यम्, इति समाख्याबलात् माओवाट कासु अन्वष्टक्यं कदाचिदापातेन प्रतिभायात् कस्यचित् । सेयमधिकाशङ्का ॥०॥ १ ॥०॥
For Private and Personal Use Only