________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[प्र. १ का.]
गृह्यसूत्रम्।
६१५
"श्रीदनव्यञ्जनार्थ न्तु पश्वभावेऽपि पायसम् । ___ मद्रवं अपयेदेतदन्वष्टक्येऽपि कर्मणि" । इति। दिर्वचनमादरार्थ, मध्यमाएकाकर्मणः परिसमाप्यर्थ, वोमया साखेवाष्टकासु यथासम्भवमनुकल्पप्रात्यञ्च । इदमिदानों चिन्त्यते । किमेतेऽष्टकादयः पाकयज्ञाः सकृत् कतव्याः? उत प्रत्यब्दम् ?-इति । तत्र, केचित् मकृदमीषां करणम्-दूच्छन्ति। कस्मात् ? । एतेषां पुरुषसंस्कारत्वात् , सकृत कृतेनैव च कर्मणा पुरुषसंस्कारस्य वृत्तवात्, पुनः करणे हेतोरभावात् ,-दूति। अन्ये वाहुः;
"तस्मादुत्सृज्य कौन्तेय ! गोवृषान् प्रति वत्सरम्"। इति पौराणिक-लिङ्गदर्शनात् श्रावृत्तिरेवामीषाम् । न च पुरुषसंस्कारस्य वृत्तत्वात् किमर्थमावृत्तिरिति वाच्यम् । पुरुषसंस्कारस्य वृत्तत्वेऽपि प्रत्यवायपरिहारार्थमावृत्ते युक्तत्वात,इति । वयन्तु पश्यामः । मकदवश्यमेव करणं, आवृत्ती तु नात्यन्तं नियमः । ततश्च, श्रावृत्तावभ्युदयः, अनादृत्तावपि न प्रत्यवायः । तथा चोक्तम् ।
“मकृदप्यष्टकादीनि कुर्यात् कर्माणि यो विजः।
स पंक्तिपावनो भूत्वा लोकान् प्रति घृतश्चरतः । इति । अत्र खल्वपिशब्दादावृत्तिरपि अवगम्यते ॥०॥ २२ ॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्यात्मजस्य श्रीचन्द्रकान्ततीलङ्कारस्य कृती गाभिलीयग्टह्यसूत्रभाव्ये चतुर्थप्रपाठकस्य प्रथमा काण्डिका समाप्ता ॥०॥ .
For Private and Personal Use Only