________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. १ का.]
सह्यसूत्रम्।
वपाहोमोऽपि स्थालीपाकेनैव स्यात्। अतो वपाहोमस्य निवृत्तिप्रज्ञापनार्थं प्रकृतविभक्त्यतिक्रमः क्रियते,-इति। अत एव, परिशिष्टकारेणाप्यवदानसङ्ख्ययैव पायसपिण्डकरणमुपदिष्टम् ॥०॥॥१८॥०॥
अपि वा गाग्रीसमाहरेत्॥ २० ॥ अपि वा अथ वा,-स्थालीपाकस्याप्यसम्भवे, गोः, विशेषेणोपदेशात् श्रात्मीयस्य परकीयस्य वा कस्यचिदनडुहः, ग्रासमाहरेद्दद्यात् । तावताप्यटकाकर्म कृतं भवतीत्यभिप्रायः । तथा च सह्यान्तरम् । “अप्यनडुहो यवसमाहरेत्" इति । केचिदत्र गोशब्दस्य स्त्रीगवीपरत्वं वर्णयन्ति । ग्रस्यते, इति ग्रामस्तुणयवसादिः। स च यावता गोर्दिवसाहारः सम्पद्यते, तावान् दातुमुचितः । कस्मात् ? ।
“यतः कुतश्चित सम्प्राप्य गाभ्यो वाऽपि गवाहिकम् । __ अभावे प्रीणयन्नस्मान् श्रद्धायुक्तः प्रदास्यति"। इति श्राद्ध करणाश तस्य तथा दर्शनात् ॥०॥ २० ॥०॥
अपि वाऽरण्ये कक्षमुपधाय ब्रूयादेषा मेऽष्ट केति ॥
अपि वा, गो ग्रीमाहरणस्थाप्यसम्भवे, इत्येतत् । अरण्ये, कक्षं बाहुमूलकोटरप्रदेश, उपधाय,-( उप होनार्थे ) होनाधानं कृत्वा,-कक्षतिरोधानमपनीय अर्द्धबाहुभूत्वा,-इति यावत् । एषा मेऽटका, इत्येतं मन्त्रं ब्रूयात् कथयेत्। तथा च, श्राद्धाशको गवाहिकप्रदान स्याप्यसम्भवे पुराणस्मरणम् ।
For Private and Personal Use Only