________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१२
गाभिलीयं
[प्र. १ का.]
ग्छागः" इति रह्यान्तरवचनात् । “छागपक्षे चरावपि"इति च लिङ्गात् । एवकारकरणं पूर्वोतवत्नविधिनियमार्थम् । तेन, अत्रापि कल्ये सर्व एव पूर्वा को होमः स्यात् ॥ ॥१८॥०॥ छागस्थाप्यरुम्भवे कथं कर्त्तव्यम् ? । तदुच्यते,
अपि वा स्थालीपाकं कुर्वीत ॥ १६ ॥
सुजुरक्षरार्थः । स खल्वयं स्थालीपाक ओदनचरोः परस्तान्मांसचरस्थाने सवत्सायास्तरुण्या गो: पयसि अपयितव्यः । तथा चोकम् ।
"स्थालोपाकं पशोः स्थाने कुर्य्याद् यद्यानुकल्पिकम् ।
अपयेत्तं सवत्मायास्तरुण्या गोः पयस्यनु" । इति । पशोःस्थाने, इति करणात पकार्यकारित्वमस्यावगम्यते । तेन, अत्राप्यष्टर्चन होमः स्यात् । एवञ्च, पशुपचे यावन्ति पशारवदानानि प्रस्तरे क्रियन्ते, स्थालीपाकपक्षेऽपि तावतः पायमान् पिण्डान् तत्र कुर्वीत । तथा चोक्तम् ।
"चरितार्थी श्रुतिः कार्या यस्मादप्यनुकल्पशः । अतोऽटर्चन हामः स्थाच्छागपक्षे चरावपि । अवदानानि यावन्ति क्रियन्ते प्रस्तरे पशोः ।
तावतः पायमान् पिण्डान् पश्वभावेऽपि कारयेत्"। इति । ननु, अपि वा स्थालीपाकेन, दूति वनव्ये किमर्थं प्रकृतविभक्त्यतिक्रमः क्रियते । कस्यचित् कर्माणाऽतिक्रमसूचनार्थमित्याह । कथं नाम ? । अष्टाहोमवत्, पश्वभावेऽप्यविलापार्ट
For Private and Personal Use Only