________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र. १ का.]
चतुर्थहीतमाज्यं गृहीत्वाऽष्टप्रथमया जुहुयादमावग्निरिति ॥ १३॥
चतुर्टहीतमाज्यं गृहीत्वा, इत्युक्तार्थम्। अनावग्निरिति योऽयमष्टर्चः,-अष्टानामृचां समाहारः, तस्य प्रथमया ऋचा जुहुयात् । भृगुणामपि चतुर्टहीतमेवैतत् । कुतः ?। विशेषवचनारम्भस्यार्थवत्त्वात् । पूर्ववत्तेषां विशेषस्यानुपदेशाच्च । सेयमाज्याहुतिः ॥ ०॥ १३ ॥०॥ अथ चाहुतिरभिधीयते,
सन्नीतात् तृतीयमाचमवदाय दितीयातीयाभ्यां जुहोति ॥ १४॥ यत् प्रथमपात्रे मन्नीतं मांसावदानं चर्ववदानं यूषश्च, तस्मात् मन्त्रोतात हतीयमात्र त्रिभागेकभागमित्येतत्। अवदाय ग्टहीत्वा, प्रकृतस्थाष्टकस्य द्वितीया बतीयाभ्यां मृगभ्यां मिलिताभ्यां जुहोति ॥०॥ १४ ॥०॥ मन्त्रान्ते स्वाहाकारः, इति सूत्रणात् प्रतिमन्त्रमेव स्वाहाकारं कश्चिदाशङ्कोत, अतस्तदपवादार्थमिदमाह,
उत्तरस्या५ स्वाहाकारं दधाति ॥ १५ ॥ उत्तरस्यां चि न पूर्वस्यां, वाहाकारं दधाति करोति । तत्रैव च जुहोति ॥ ॥ १५ ॥०॥
For Private and Personal Use Only