________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६०४
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[२ प्र. १० का . ]
स्थालीपाकावृता,–“अथ हविष उपस्तीव्यावद्यति मध्यात् पूर्व्व
द्धीत्”– इत्याद्युक्तप्रकारेणेत्यर्यः । पूर्व्वमासादितेन चुरेण वपा - मवदाय, स्विष्टकृदावृता वा कृत्स्नां वपामादाय, अष्टकायै स्वाहा, — इत्यनेन मन्त्रेण जुहोति । तथा चोक्तम् ।
“क्षरो मांसावदानार्थः, कृत्स्नां स्विष्टकृदावृता । वपामादाय जुहुयात् तच तन्त्रं समापयेत्” । इति । अनन्तरमेवान्यस्य कण उपदेशादेककशङ्का माभूदिति, “तत्र तन्त्रं समापयेत्” – इत्यनेन कर्मणो नानात्वं स्पष्टीकृतम् ॥ ० ॥ ३५ ॥ ० ॥
स्थालीपाकादृताऽन्यत् स्थालीपाकाष्टताऽन्यत् ॥ ३६ ॥
कृतभाष्यमेतत् । श्रस्मादपि वचनादिदानीमेकस्य कर्मणः परिसमाप्तिरवगम्यते । द्विर्व्वचनं प्रपाठक समाप्ति प्रज्ञापनार्थम् ॥ ० ॥ ३६ ॥ ॥
इति महामहोपाध्या यराधाकान्त सिद्धान्तवागीश भट्टाचार्य्यत्मजस्य श्री चन्द्रकान्ततकीलङ्कारस्य कृतो गोभिलीयग्गृह्मसूत्रभाष्ये तृतीयप्रपाठकस्य दशमी काण्डिका समाप्ता ॥
समाप्तश्चायं तृतीयः प्रपाठकः ॥
For Private and Personal Use Only