________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीय-गृह्यसूत्रे
चतुर्थप्रपाठके प्रथमा काण्डिका ।
aurat aur पण्योः पलाशशाखयोः प्रतिपत्तिमाच, - प्रहरति वपापण्यौ ॥ १ ॥
कथं प्रहरति ? । उच्यते, -
―
ययोः शाखाविशाखयोरवसृज्य वपा श्रपिता, ते शाखाविशाखे वपाश्रपण्यैौ उच्यते । ते वपाश्रवख श्रनु पश्चात् प्रहरति । कस्य पश्चात् ? । द्रव्यासादन तदीचण प्रोक्षणपर्य्यन्तस्य । कस्मात् ? । श्रारम्भसामर्थ्यादित्याह । पूर्व्वप्रपाठक परिसमाप्तौ पूर्व्वस्य कर्मण: तन्त्रसमापनस्याभिधानात् श्रग्रे च चरुश्रपणस्य सूत्रयिष्यमाणत्वात् दूदानों खल्वनुशब्देन चरुश्रपण - पूर्व्वकर्त्तव्यानामेव कर्मणां परतः, -इत्यवगम्यते । तत्र च क्षुरः, कंसपात्रचयं, प्लक्षशाखावान् प्रस्तरः, -- इत्येतेषामेव वैकृतानामासादनमत्राधिकम् । प्राकृतानामपि मध्ये, चरुस्याली पवित्र मेक्षणनि द्वन्दश श्रासादयितव्यानि विनियोगसामर्थ्यात् । सर्व्वमन्यत् प्रकृतवदेवासादयितव्यम् । प्रहरतिश्च यजतिवचन:, - दूति प्रस्तर - प्रहरण - न्याये निर्णीतम् । “गार्हपत्ये प्रहरामः " - इति च श्रूयते । तथा सूत्रकारोऽप्याह । “अष्टावष्टौ सकलान्याहवनीये प्रहरेयुः " इति । तस्मात् हेामोऽयम् ॥ ० ॥ १ ॥ ० ॥
For Private and Personal Use Only