________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
પૂર
गोभिलीयं
Acharya Shri Kailassagarsuri Gyanmandir
[१ प्र. १० का . ]
"
स्थापनं “पुरस्तादग्नेरवस्थाप्य " - इत्यनेन सूचितं तत्र याऽवस्थितिः सेवेापस्थितायामित्यनेन परामृश्यते । न – इत्युच्यते । कस्मात् न—इत्युच्यते ? । श्ट्णु, यथा न - इत्युच्यते । यदि नाम सैवावस्थितिः परामृश्येत, नूनमवस्थितायामित्यकरिय्यत् । तदकरणाच्चावगच्छामः, -नात्र मैवावस्थितिः परामृश्यते, - इति । न खल्ववस्थितिमभिप्रयन्नुपस्थितायामिति च कुर्व्वन्नाचार्योऽस्माकं प्रतीतिं स्थगयति इति युक्तमभ्युपगन्तुम् । श्रानर्थक्यञ्चैवमापद्येत । पुरस्तादग्नेरवस्याप्य जुहुयात्, - इति ह्यभिप्रेतम् । तस्मात् सन्धिवेलायामुपस्थितायाम् - इत्यस्मदुक्त एवार्थ आदरणीयः । श्रवणमात्रादष्ययमेवार्थेऽवगम्यते । अवगम्यते चेत्, न युज्यते परित्यक्तुम् । अतएव, सन्धिवेलासमीपं गोरवस्थापनं सन्धिवेलायामुपस्थितायां हामार्थम् । सन्धिवेलासमोपम्, – इत्यस्य प्रातराजत्यनन्तरपरतया वर्णनायाञ्च तदेवानर्थकं स्यात् । परिभाषा - बलादेव तत्प्राप्तेः । नापि सन्धिवेलासमोपमित्यनेनास्येनैतदवगम्यते । तस्मान्न किञ्चिदेतत् ।
कश्चिदिदं सूत्रम् — उपस्थितायां गवि - इत्यन्यथा व्याख्याय, बहुप्रकारं वर्णनाञ्चकार । "ननु, अवस्थाप्य इत्युक्का, पुनरुपस्थितायामिति कस्मादुच्यते ? | अत्राह । श्रस्य होमस्य पशूपस्थापनेन महातिसम्बन्धार्थम् । पश्वभावे स्थालीपाकं कुर्वोत, - इत्यस्मिन् पक्षे निवृत्तिरेव स्यात् । प्रोणपर्य्यग्निकरण मन्त्री स्थालोपाकपक्षेऽप्यविरोधात् पठनीयो । श्रथवा । आज्यसंस्कार - प्रतिषेधार्थम् उपस्थितायामिति पुनर्व्वचनम् । कथन्नाम ? |
तु
For Private and Personal Use Only