________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ प्र. १० का . ]
उपस्थितायां जुहुयादेव, न तावदाज्यं संस्कुर्य्यात्, दूति । श्रथवा । श्रसादनीये श्रासादिते कर्माणः कृताकृत प्रत्यवेक्षणकर्त्तरि ब्रह्मणि चोपविष्टे तत्रापि होमस्य प्राप्तत्वात् तथा माभूदित्यानार्थं पुनर्व्वचनम् । तेन किम् ? । उपस्थितायामनन्तरमेव जुहुयादेव, न तावत् किञ्चिदपि कुर्य्यात् " - इति ॥ ० ॥
112511011
हुत्वा
गृह्यसूत्रम् ।
पूर्वह
चानुमन्त्रयेतानुत्वामातामन्यतामिति ॥ २० ॥
डवा, अनुत्वा माता, — इति मन्त्रेण गामनुमन्त्रयेत, श्रनामिकाग्रेण स्पृशन् । हुत्वा, - इति वचनं हत्वैवानुमन्त्रयेत न तु तन्त्रसमापनमपि कृत्वा, — इत्येवमर्थम् । चशब्दश्च यवमिश्रोदका - दोनामासादनार्थः । तेन, - यत्र मिश्रमुदकं, पवित्रं, चुरः, शाखाविशाखे पलाशकाष्ठे, वर्हिः, दूध्मः, आज्यं, समिधा, स्रुवः, - इत्येतानि यथावदासाद्य, अनन्तरमनुमन्त्रयेतेत्यर्थः ॥ ० ॥२०॥ ॥ यवमतीभिरद्भिः प्राक्षेदष्टकायै त्वा जुष्टां प्राक्षामीति ॥ २१ ॥
पूर्वमासादिताभि र्यवमतोभिरद्भि गीं प्रोक्षेत्-प्रकर्षेण सिञ्चेत् अष्टकाये, - इति मन्त्रेण ॥ ० ॥ २१ ॥ ० ॥
--
उल्मुकेन परिहरेत् परिवाजपतिः कविरिति ॥ २२ ॥ उल्मुकमलातमित्यनर्थान्तरम् । तेन गां परिहरेत् प्रदक्षिणोकुर्य्यात् परिवाजपतिरिति मन्त्रेण ॥ ० ॥ २२॥ ० ॥
For Private and Personal Use Only